________________
श्रीसिद्धहेमचन्द्रशब्दानुशासनम् ॥
कर्तृस्थामूर्त्ताऽऽप्यात् ॥ ३३३॥४०॥
कर्तृस्थममूर्तं कर्म यस्य तस्मान्नियः 'कर्त्तर्यात्मनेपदम् स्यात् । श्रमं विनयते । कर्तृस्थेति किम् ? चैत्रो मैत्रस्य मन्युं विनयति । अमूर्त्तेति किम् ? गडुं विनयति । आप्येति किम् ? बुद्ध्या विनयति ||४०||
शदेः शिति | ३ | ३ | ४१ ॥
शिद्विषयात् शदेः 'कर्त्तर्यात्मनेपदम् स्यात् । शीयते । शितीति किम् ? शत्स्यति ॥ ४१||
१७०
म्रियतेरयतन्याशिषि च |३|३|४२ ॥
अतोऽद्यतन्याशीर्विषयाच्छिद्विषयाच्च 'कर्त्तर्यात्मनेपदम्' मृषीष्ट, म्रियते । अद्यतन्याशिषि चेति किम् ? ममार ॥ ४२ ॥ क्यङ्क्षो नवा |३|३|४३ ॥
क्यङ्क्षन्तात् 'कर्त्तर्यात्मनेपदं वा स्यात् । निद्रायति, निद्रायते ||४३|| युद्भ्योऽद्यतन्याम् | ३ | ३ |४४ ॥
'कर्त्तर्यात्मनेपदं वा' स्यात् । व्यद्युतत्, व्य
स्यात् । अमृत;
घुतादिभ्योऽद्यतनीविषये
द्योतिष्ट, अरुचत्, अरोचिष्ट । अद्यतन्यामिति किम् ? द्योतते ||४४ ॥ वृद्भ्यः स्य- सनोः | ३|३|४५ ॥
वृदादेः पञ्चतः स्याऽऽदौ प्रत्यये सनि च विषये 'कर्त्तर्यात्मनेपदं वा ' स्यात् । वत्र्त्स्यति, वर्तिष्यते; विवृत्सति, विवर्त्तिषते । स्य सनोरिति किम् ? वर्त्तते ॥ ४५ ॥
कृपः श्वस्तन्याम् |३|३|४६ ॥
कृपेः श्वस्तनीविषये 'कर्त्तर्यात्मनेपदं वा स्यात् । कल्पूतासि, कल्पितासे ॥४६॥