________________
श्रीसिद्धहेमचन्द्रशब्दानुशासनम्
अन्वाङ् – परेः | ३ | ३ | ३४॥ एभ्यः परात् क्रीडतेः 'कर्त्तर्यात्मनेपदम्' स्यात् । अनुक्रीडते, आक्रीडते. परिक्रीडते ॥ ३४ ॥
शप उपलम्भने | ३|३|३५॥
१६९
उपलम्भनम् - प्रकाशनं शपथो वा, तदर्थाच्छपतेः 'कर्त्तर्यात्मनेपदम् ' स्यात् । मैत्राय शपते । उपलम्भन इति किम् ? मैत्रं शपति ||३५|| आशिषि नाथः | ३|३|३६||
आशीरयदिव नाथेः 'कर्त्तर्यात्मनेपदम्' स्यात् । सर्पिषो नाथते । आशिषीति किम् ? मधु नाथति ||३६|| भुनजोऽत्राणे |३|३|३७॥
पालनादन्यार्थाद् भुनक्तेः 'कर्तर्यात्मनेपदम्' स्यात् । ओदनं भुङ्क्ते । भुनज इति किम् ? ओष्ठी निर्भुजति । अत्राण इति किम् ? पृथ्वीं भुनक्ति ॥३७॥
हगो गतताच्छील्ये ॥ ३।३।३८॥
गतम् - सादृश्यम्, हृगो गतताच्छील्यार्थात् 'कर्त्तर्यात्मनेपदम् स्यात् । पैतृकमश्वा अनुहरन्ते पितुरनुहरन्ते । गत इति किम् ? पितुर्हरति चोरयतीत्यर्थः । ताच्छील्य इति किम् ? नटो राममनुहरति ॥ ३८ ॥
पूजाऽऽचार्यक - भृत्युत्क्षेप- ज्ञान-विगणन-व्यये नियः ।३।३।३९॥
पूजादिषु गम्येषु नियः 'कर्त्तर्यात्मनेपदम्' स्यात् । नयते विद्वान् स्याद्वादे, माणवकमुपनयते कर्मकरानुपनयते, शिशुमुदानयते, नयते तत्त्वार्थे, मद्राः कारं विनयन्ते, शतं विनयते । एष्विति किम् ? अजां नयति ग्रामम् ॥