________________
१७२
श्रीसिद्धहेमचन्द्रशन्दानुशासनम् ॥
% 3A
स्वाऽऽस्यप्रसार - विकासाभ्यामन्यार्थाद् आपूर्वाद् दागः 'कर्तर्यात्मनेपदम्' स्यात् । विद्यामादत्ते । स्वास्यादिवर्जनं किम् ? उष्ट्रो मुखं व्याददाति, कूलं व्याददाति ॥५३॥
नु-प्रच्छः ।३।३।५४॥ आङ्पूर्वान्नौतेः प्रच्छेश्च 'कर्तर्यात्मनेपदम्' स्यात् । आनुते शृगालः, आपृच्छते गुरून् ॥५४॥
गमेः क्षान्तौ ॥३॥३॥५५॥ कालहरणार्थाद् गमयतेरापूर्वात् 'कर्तर्यात्मनेपदम्' स्यात् । आगमयते गुरुम् - कञ्चित् कालं प्रतीक्षते । क्षान्ताविति किम् ? विद्यामागमयति ॥५५।।
हः स्प. ३३३॥५६॥ आपूर्वाद् हयतेः स्पर्द्ध गम्ये 'कर्तर्यात्मनेपदम्' स्यात् । मल्लो मल्लमाह्वयते । स्पर्द्ध इति किम् ? गामाह्वयति ॥५६॥
सं-नि-वेः ।३।३१५७॥ एभ्यो ह्वयतेः 'कर्तर्यात्मनेपदम्' स्यात् । संह्रयते, नियते, विह्वयते ॥५७॥
उपात् ।३।३।५८॥ उपाद् हयतेः 'कर्तर्यात्मनेपदम्' स्यात् । उपह्वयते ॥५८॥
यमः स्वीकारे ।३।३१५९॥ उपाद् यमः स्वीकारार्थात् 'कर्तर्यात्मनेपदम्' स्यात् । कन्यामुपयच्छते, उपायंस्त महास्त्राणि । विनिर्देशः किम् ? शाटकानुपयच्छति ।।५९॥
देवाऽर्चा-मैत्री-सङ्गम-पथिकर्तृक-मन्त्रकरणे स्थः ।३।३।६०॥ एतदर्याद् उपपूर्वात् तिष्ठतेः 'कर्तर्यात्मनेपदम् स्यात् । देवार्चा -जिनेन्द्रमुपतिष्ठते । मैत्री – रथिकानुपतिष्ठते । सङ्गमः - यमुना गङ्गामुपतिष्ठते ।