________________
१६६
श्रीसिद्धहेमचन्द्रशदानुशासनम् ॥
पचध्वे । अहं पचामि, आवां पचावः, वयं पचामः । पचे, पचावहे, पचामहे । एवं सर्वासु । द्वययोगे त्रययोगे च पराश्रयमेव वचनम् । स च त्वं च पचथः, स च त्वं च अहं च पचामः ॥१७॥
एक-द्वि-बहुषु ।३।३॥१८॥ 'अन्यादिषु यानि त्रीणि त्रीण्युक्तानि तान्येक-द्वि-बहुष्वर्थेषु स्युः' । स पचति, तौ पचतः, ते पचन्तीत्यादि ॥१८॥
नवाऽऽयानि शत-क्वसू च परस्मैपदम् ।३।३॥१९॥ 'सर्वविभक्तीनामाधानि नव नव वचनानि शतृ-क्वसू च परस्मैपदानि स्युः' । तिव्, तस्, अन्ति; सिक्, थस्, य; मिक्, वस्, मस् । एवं सर्वासु ॥१९॥
पराणि काना-ऽऽनशौ चाऽऽत्मनेपदम् ॥३॥३॥२०॥ 'सर्वविभक्तीनां पराणि नव नव वचनानि कानानशी चाऽऽत्मनेपदानि स्युः । ते, आते, अन्ते; से, आथे, ध्वे; ए, वहे, महे । एवं सर्वासु ॥२०॥ तत् साप्याऽनाप्यात् कर्मभावे, कृत्य-तखलाश्च
३॥३॥२१॥ 'तद्- आत्मनेपदं कृत्य-क्त-खलाश्च प्रत्ययाः सकर्मकाद्धातोः कर्मणि,
अकर्मकादविवक्षितकर्मकाच्च भावे स्युः' । क्रियते कटश्चैत्रेण | चक्राणः । क्रियमाणः । भूयते त्वया । भूयमानम् । क्रियते । मृदु पच्यते । कार्यः । कर्तव्यः । करणीयः । देयः । कृत्यः । कटस्त्वया । शयितव्यम् । शयनीयम् । शेयम् । कार्यम् । कर्तव्यम् । करणीयम् । देयम् । कृत्यम् । त्वया कृतः कटः । शयितम् । कृतं त्वया । सुकरः कटस्त्वया । सुशयम् । सुकरं त्वया । सुकटंकराणि वीरणानि । ईषदायम्भवं भवता । सुज्ञानं तत्त्वं मुनिना । सुग्लानं दीनेन । मास आस्यते । मासमास्यते ॥२१॥