________________
श्रीसिद्धहेमचन्द्रशन्दानुशासनम्
१६७ इङितः कर्तरि ।३।३।२२॥ इदितो ङितश्च धातोः कर्तर्यात्मनेपदम्' स्यात् । एधते, एधमानः, शेते, शयानः ॥२२॥ क्रियाव्यतिहारेऽगति-हिंसा-शब्दार्थ-हसो ह-वहश्चा
ऽनन्योऽन्यार्थे ।३।३॥२३॥ अन्यचिकीर्षितायाः क्रियाया अन्येन हरणं करणम् क्रियाव्यतिहारः, तदर्थाद् गति-हिंसा-शब्दार्थहस्वर्जाद् धातोई-वहिन्यां च 'कर्तर्यात्मनेपदम्' स्यात्, न त्वन्योऽन्येतरेतर-परस्परशब्दयोगे । व्यतिलुनते, व्यतिहरन्ते, व्यतिवहन्ते भारम् । क्रियेति किम् ? द्रव्यव्यतिहारे मा भूत् - चैत्रस्य धान्यं व्यतिलुनन्ति । गत्यर्यादिवर्जनं किम् ? व्यतिसर्पन्ति, व्यतिहिंसन्ति, व्यतिजल्पन्ति, व्यतिहसन्ति । अनन्योऽन्यार्थ इति किम् ? परस्परस्य व्य- तिलुनन्ति । कर्तरीत्येव - तेन भावकर्मणोः पूर्वेणैव गत्यर्थादिभ्योऽपि स्यात् - व्यतिगम्यन्ते ग्रामाः ॥२३॥
निविशः ।३।३।२४॥ नेर्विशः 'कर्तर्यात्मनेपदम्' स्यात् । निविशते ॥२४॥
उपसर्गादस्योहो वा ।३।३।२५॥ उपसर्गात् पराभ्यामस्यत्यूहिभ्याम् 'कर्तर्यात्मनेपदं वा' स्यात् । विपर्यस्यते, विपर्यस्यति; समूहते, समूहति ॥२५॥
उत-स्वराद् युजेरयज्ञतत्पात्रे ।३।३।२६॥ उदः स्वरान्ताच्चोपसर्गात् पराद् युनक्तेः 'कर्तर्यात्मनेपदम्' स्यात्, न चेद् यज्ञे यत्तत्पात्रं तद्विषयो युज्यर्थः स्यात् । उद्युई, उपयुद्धे । उत्स्वरादिति किम् ? संयुनक्ति । अयज्ञतत्पात्र इति किम् ? द्वन्द्वं यज्ञपात्राणि प्रयुनक्ति ।