________________
१६०
श्रीसिद्धहेमचन्द्रशन्दानुशासनम् ॥
का-कवौ वोष्णे ।३।२।१३७॥ उष्णे उत्तरपदे 'कोः का कवी वा' स्याताम् । कोष्णम्, कवोष्णम् । पक्षे यथाप्राप्तमिति तत्पुरुषे - कदुष्णम् । बहुव्रीही - कूष्णो देशः ॥१३७॥
कृत्येऽवश्यमो लुक् ।३।२।१३८॥ कृत्यान्ते उत्तरपदे 'ऽवश्यमो लुक् स्यात् । अवश्यकार्यम् । कृत्य इति किम् ? अवश्यंलावकः ॥१३८॥
समस्तत-हिते वा ।३।२।१३९॥ तते हिते चोत्तरपदे 'समो लुग् वा' स्यात् । सततम्, सन्ततम्; सहितम्, संहितम् ।।१३९॥
तुमश्च मनः कामे ३।२।१४०॥ 'तुम्-समोर्मनसि कामे चोत्तरपदे लुक्' स्यात् । भोक्तुमनाः, गन्तुकामः; समनाः, सकामः ।।१४०॥
मांसस्याऽनपत्रि पचि नवा ।३।२।१४१॥ अनड्यजन्ते पचावुत्तरपदे 'मांसस्य लुग् वा' स्यात् । मांस्पचनम्, मांसपचनम्; मांस्पाकः, मांसपाकः ॥१४१॥
दिक्शब्दात् तीरस्य तारः ।३।२।१४२॥ अस्मात् परस्य 'तीरस्योत्तरपदस्य तारो वा' स्यात् । दक्षिणतारम्, दक्षिणतीरम् ॥१४२॥
सहस्य सोऽन्यार्थे ।३।२।१४३॥ उत्तरपदे परे ‘बहुव्रीही सहस्य सो वा' स्यात् । सपुत्रः, सहपुत्रः । अन्यार्थ इति किम् ? सहजः ॥१४३॥
'नाम्नि ३२११४४॥