________________
श्रीसिद्धहेमचन्द्रशब्दानुशासनम्
१५९
अप्राणिन्यर्थे 'नगो वा निपात्यते' । नगः, अगो गिरिः । अप्राणिनीति किम् ?
अगोऽयं शीतेन ॥१२७॥
नखादयः | ३ |२|१२८॥
एते 'अकृताऽकाराद्यदेशा निपात्यन्ते' । नखः, नासत्यः ॥१२८॥ अन् स्वरे |३|२|१२९॥
स्वरादावुत्तरपदे 'नञोऽन्' स्यात् । अनन्तो जिनः ॥ १२९ ॥ कोः कत्तत्पुरुषे । ३।२।१३०॥
स्वरादावुत्तरपदे 'कोस्तत्पुरुषे कद्' स्यात् । कदश्वः । तत्पुरुष इति किम् ? कूष्ट्रो देशः । स्वर इत्येव - कुब्राह्मणः || १३०||
रथ- वदे |३|२|१३१॥
रथे वदे चोत्तरपदे 'कोः कद्' स्यात् । कद्रथः, कद्वदः ॥१३१॥ तृणे जातौ ।३।२।१३२॥
जातावर्थे तृणे उत्तरपदे 'कोः कद्' स्यात् । कत्तृणा रौहिषाख्या तृणजातिः ॥ कत्त्रिः ।३।२।१३३॥
'कोः किमो वा त्रावुत्तरपदे कद्' स्यात् । कत्त्रयः ॥ १३३ ॥ काऽक्ष-पथोः | ३|२|१३४॥
अनयोरुत्तरपदयोः 'कोः का' स्यात् । काऽक्षः, कापथम् ॥१३४|| पुरुषे वा । ३।२।१३५ ॥
पुरुषे उत्तरपदे 'कोः का' वा' स्यात् । कापुरुषः, कुपुरुषः ॥१३५॥ अल्पे | ३|२|१३६॥
'ईषदर्थस्य कोरुत्तरपदे का' स्यात् । कामधुरम्, काऽच्छम् ॥१३६॥