________________
१५८
श्रीसिद्धहेमचन्द्रशदानुशासनम् ॥
एषूतरपदेषु अषष्ठीतृतीयादन्याद् ‘दोऽन्तः' स्यात् । अन्यदाशीः अन्य दाशा, अन्यदास्थितः, अन्यदास्था, अन्युदुत्सुकः, अन्यदूतिः, अन्यद्रागः अषष्ठीतृतीयादित्येव- अन्यस्य अन्येन वा आशीः= अन्याशीः ॥१२०।।
ईय-कारके ।३।२।१२१॥ अन्याद् ईये प्रत्यये कारके चोत्तरपदे 'दोऽन्तः' स्यात् । अन्यदीयः अन्यत्कारकः ॥१२१॥
सर्वादि-विश्वग-देवाड्डद्रिः क्व्यञ्चौ ।३।२।१२२॥ सवदिविष्वग्-देवाभ्यां च परतः क्विबन्ते अचावुत्तरपदे ‘डदिरन्तः स्यात् । सर्वद्रीचः, द्वयङ्, कत्र्य; विष्वव्यङ्, देवव्यङ् । क्वीति किम् ? विष्वगञ्चनम् ॥१२२॥
__ सह-समः सनि-समि ।३।२।१२३॥ अनयोः स्थाने स्विबन्ते अञ्चावुत्तरपदे यथासंख्यम् ‘सध्रि-समी' स्याताम् । सध्यङ्, सम्यङ् । क्व्यञ्चावित्येव- सहाञ्चनम् ॥१२३॥
तिरसस्तियति ।३।२।१२४॥ अकारादौ क्विवन्तेऽञ्चावुत्तरपदे "तिरसस्तिरिः' स्यात् । तिर्यङ् । अतीति किम् ? तिरश्वः ।।१२४॥
नञत् ।३।२।१२५॥ उत्तरपदे परे 'नञ् अः' स्यात् । अचौरः पन्याः । उत्तरपद इत्येव- न मुझे ॥१२५॥
त्यादौ क्षेपे ।३।२।१२६॥ त्याधन्ते पदे परे निन्दायां गम्यमानायाम् 'नञ् अः' स्यात् । अपचसि त्वं जाल्म ! । क्षेप इति किम् ? न पचति चैत्रः ॥१२६॥
नगोऽप्राणिनि वा ३।२।१२७॥