________________
श्रीसिद्धहेमचन्द्रशब्दानुशासनम्
१५७
सत्या-ऽगदा-ऽस्तोः कारे ।३।२।११२॥ एभ्यः कारे उत्तरपदे 'मोऽन्तः' स्यात् । सत्यङ्कारः अगदङ्कारः अस्तुङ्कारः ॥
लोकम्पृण-मध्यन्दिना-नभ्याशमित्यम् ।३।२।११३॥ एते 'कृतपूर्वपदमोऽन्ता निपात्यन्ते' । लोकम्पृणः, मध्यन्दिनम्, अनभ्याशमित्यः ॥११३॥
भ्राष्ट्रा-ऽग्नेरिन्धे ।३।२।११४॥ आभ्यामिन्धे उत्तरपदे 'मोऽन्तः' स्यात् । भ्राष्ट्रमिन्धः, अग्निमिन्धः ॥११४॥
अगिलाद गिल-गिलगिलयोः ।३।२।११५॥ गिलान्तवर्जात् पूर्वपदात् परे गिले गिलगिले चोत्तरपदे 'मोऽन्तः' स्यात् । तिमिङ्गिलः, तिमिनिलगिलः । अगिलादिति किम् ? तिमिगिलगिलः ॥११५॥
भद्रोष्णात् करणे ।३।२।११६॥ आभ्यां परः करणे उत्तरपदे 'मोऽन्तः' स्यात् । भद्रकरणम्, उष्णंकरणम् ।।
नवाऽखितकृदन्ते रात्रेः ।३।२।११७॥ खिद्वर्जे कृदन्ते उत्तरपदे परे 'रात्रेर्मोऽन्तो वा' स्यात् । रात्रिञ्चरः, रात्रिचर । खिद्वर्जनं किम् ? रात्रिमन्यमहः । कृदन्त इति किम् ? रात्रिसुखम् । अन्तग्रहणं किम् ? रात्रयिता ॥११७॥
घेनोभव्यायाम् ।३।२।११८॥ धेनोर्मव्यायामुत्तरपदे ‘मोऽन्तो वा' स्यात् । धेनुम्भव्या, धेनुभव्या ॥११८॥
अषष्ठीतृतीयादन्याद् दोऽर्थे ।३।२।११९॥ अषष्ट्यन्तादतृतीयान्ताच्चाऽन्यादर्थे उत्तरपदे 'दोऽन्तो वा' स्यात् । अन्यदर्थः, अन्यार्थः । षड्यादिवर्जनं किम् ? अन्यस्याऽन्येन वाऽर्थः= अन्यार्थः ।।
आशीराशा-ऽऽस्थिता-ऽऽस्थोत्सुकोति-रागे ।३।२।१२०॥