________________
१५६
श्रीसिद्धहेमचन्द्रशब्दानुशासनम् ॥
मन्थौदन-सक्तु-बिन्दु-वज्र-भार- हार - वीवध - गाहे वा
।३।२।१०६॥
एषूत्तरपदेषु 'उदकस्योदो वा स्यात् । उदमन्यः, उदकमन्थः; उदौदनः उदकौदनः; उदसक्तुः, उदकसक्तुः; उदबिन्दुः, उदकबिन्दुः; उदवज्रः, उदकवज्रः उदभारः, उदकभारः; उदहारः; उदकहारः; उदवीवधः, उदकवीवधः; उदगाहः; उदकगाहः ||१०६ ॥
नाम्न्युत्तरपदस्य च ।३।२।१०७॥
'उदकस्य पूर्वपदस्योत्तरपदस्य च संज्ञायामुदः' स्यात् । उदमेघः, उदवाहः, उदपानम्, उदधिः, लवणोदः, कालोदः ||१०७ || ते लुग्वा |३|२|१०८॥
"
'संज्ञाविषये पूर्वोत्तरपदे लुग् वा स्यात् । देवदत्तः देवः, दत्तः ॥ १०८ ॥ द्व्यन्तरनवर्णोपसर्गादप ईपू । ३।२।१०९ ॥
'द्व्यन्तर्भ्यामवर्णान्तवर्जोपसर्गेभ्यश्च परस्याऽप उत्तरपदस्य ईप् स्यात् । द्वीपम्, अन्तरीपम्, नीपम्, समीपम् । उपसर्गादिति किम् ? स्वापः । अनवर्णेति किम् ? प्रापम्, परापम् ॥ १०९ ॥
अनोर्देशे उप् | ३|२|११०॥
'अनोः परस्याऽपो देशेऽर्थे उप्' स्यात् । अनूपो देशः । देश इति किम् अन्वीपं वनम् ॥ ११०॥
खित्यनव्ययाऽरुषो मोऽन्तो हस्वश्च । ३।२१११॥
स्वरान्तस्यानव्ययस्यारुषश्च खित्प्रत्ययान्ते उत्तरपदे 'मोऽन्तो यथासम्भवं ह्रस्वादेशश्च' स्यात् । ज्ञंमन्यः, कालिमन्या, अरुन्तुदः । खितीति किम् ? ज्ञमानी । अनव्ययस्येति किम् ? दोषामन्यमहः ||999 ||