________________
-
-
श्रीसिद्धहेमचन्द्रशब्दानुशासनम्
१५५ शब्दादावुत्तरपदे ‘पादस्य पद् वा' स्यात् । पछब्दः, पादशब्दः; पनिष्कः, पादनिष्कः; पद्घोषः, पादघोषः; पन्मिश्रः, पादमिश्रः ॥९८॥
नस् नासिकायास्तः क्षुद्रे ३।२।९९॥ 'नासिकायास्तस्प्रत्यये क्षुद्रे चोत्तरपदे नस्' स्यात् । नस्तः, नःमुद्रः ॥९९।।
येऽवणे ।३।२।१००॥ 'नासिकाया ये प्रत्यये वर्णादन्यत्रार्थे नस्' स्यात् । नस्यम् । य इति किम् ? नासिक्यं पुरम् । अवर्ण इति किम् ? नासिक्यो वर्णः ॥१०॥
शिरसः शीर्षन ।३।२।१०१॥ 'शिरसो ये प्रत्यये शीर्षन् स्यात् । शीर्षण्यः स्वरः, शीर्षण्यं तैलम् । य इत्येव- शिरस्तः, शिरस्यति ॥१०१।।
केशे वा ।३।२।१०२॥ 'शिरसः केशविषये ये प्रत्यये शीर्षन् वा' स्यात् । शीर्षण्याः शिरस्याः केशाः ॥१०॥
शीर्षः स्वरे तद्धिते ।।२।१०३॥ 'शिरसः स्वरादौ तद्धिते शीर्षः' स्यात् । हास्तिशीर्षिः, शीर्षिकः ॥१०३॥
उदकस्योदः पेष-धि-वास-वाहने ।३।२।१०४॥ 'उदकस्य पेषमादावुत्तरपदे उदः' स्यात् । उदपेषं पिनष्टि, उदधिर्घटः, उदवासः, उदवाहनः ।।१०४॥
वैकव्याने पूर्ये ।३।२।१०५॥ 'उदकस्याऽसंयुक्तव्यानादौ पूर्यमाणार्थे उत्तरपदे उदो वा' स्यात् । उदकुम्भः, उदककुम्भः । व्यञ्जन इति किम् ? उदकामत्रम् । एकेति किम् ? उदकस्थालम् । पूर्य इति किम् ? उदकदेशः ।।१०५॥