________________
१५४
श्रीसिद्धहेमचन्द्रशब्दानुशासनम् ॥
३।२।९२॥ एषां यथासंख्यमेते प्राक् शतात् संख्यायामुत्तरपदे स्युः, न तु अशीतौ बहुव्रीहिविषये च । द्वादश, त्रयोविंशतिः, अष्टात्रिंशत् । प्राक्शतादिति किम् ? द्विशतम्, त्रिशतम्, अष्टलहसम् । अनशीतिबहुव्रीहाविति किम् ? यशीतिः, द्वित्राः ॥१२॥
चत्वारिंशदादौ वा ३।२।९३॥ द्वित्र्यष्टानां प्राक्शताच्चत्वारिंशदादावुत्तरपदे 'यथासंख्यं द्वा-त्रयोऽष्टा वा' स्युः, अनशीतिबहुव्रीहौ । द्वाचत्वारिंशत्, द्विचत्वारिंशत; त्रयश्चत्वारिंशत्, त्रिचत्वारिंशत्; अष्टाचत्वारिंशत्, अष्टचत्वारिंशत् ॥१३॥
हृदयस्य हल्लास-लेखा-ऽण-ये ।।२।९४॥ अस्य लास-लेखयोरुत्तरपदयोरणि ये च प्रत्यये 'हृत्' स्यात् । हल्लासः, हल्लेखः, हाईम्, हृद्यः ॥९४॥
पदः पादस्या-ऽऽज्याति-गोपहते ।३।२।९५॥ 'पादस्याज्यादावुत्तरपदे पदः' स्यात् । पदाजिः, पदातिः, पदगः, पदोपहतः ।
हिम-हति-काषि-ये पद् ।३।२।९६॥ हिमादावुत्तरपदे ये च प्रत्यये ‘पादस्य पद्' स्यात् । पद्धिमम्, पद्धतिः, पत्काषी, पद्याः शर्कराः ॥१६॥
ऋचः शसि ।३।२।९७॥ 'ऋचां पादस्य शादी शस्प्रत्यये पद्' स्यात् । पच्छो गायत्रीं शंसति । ऋच इति किम् ? पादशः श्लोकं वक्ति । द्विःशपाठात् स्यादिशसि न स्यात् - ऋचः पादान् पश्य ॥९७।।
शब्द-निष्क-घोष-मित्रे वा ।३।२।९८॥