________________
श्रीसिद्धहेमचन्द्रशब्दानुशासनम्
३।२।८५॥ गति-कारकयोर्नह्यादौ क्विबन्ते उत्तरपदे दीर्घः' स्यात् । उपानत, नीवृत, प्रावृट्, श्वावित्, नीरुक्, ऋतीषट्, जलासट्, परीतत् ॥८५॥
घज्युपसर्गस्य बहुलम् ।३।२।८६॥ घजन्ते उत्तरपदे उपसर्गस्य 'बहुलं दीर्घः' स्यात् । नीक्लेदः, नीवारः । बाहुलकात् क्वचिद्वा - प्रतीवेशः, प्रतिवेशः । क्वचित्र - विषादः, निषादः ।।
नामिनः काशे ।३।२।८७॥ नाम्यन्तस्योपसर्गस्याऽजन्ते काशे उत्तरपदे 'दीर्घः' स्यात् । नीकाशः वीकाशः । नामिन इति किम् ? प्रकाशः ॥८७॥
दस्ति ।३।२।८८॥ दो यस्तादिरादेशस्तस्मिन् परे नाम्यन्तस्योपसर्गस्य 'दीर्घः' स्यात् । नीत्तम्, वीत्तम् । द इति किम् ? वितीर्णम् । तीति किम् ? सुदत्तम् ॥८८॥
अपील्वादेवहे ।३।२।८९॥ पील्वादिवर्जस्य नाम्यन्तस्य वहे उत्तरपदे 'दीर्घः' स्यात् । ऋषीवहम्, मुनीवहम् । अपील्वादेरिति किम् ? पीलुवहम्, दारुवहम् ।।८९॥
शुनः ।३।२।९०॥ अस्योत्तरपदे 'दीर्घः स्यात् । श्वादन्तः, श्वावराहम् ॥१०॥
एकादश-षोडश-षोडन-पोटा-षड्ढा ।३।२९१॥ “एकादयो दशादिषु कृतदीर्घत्वादयो निपात्यन्ते' । एकादश, षोडश, षड् दन्ता अस्य षोडन्, षोढा, षड्ढा ॥९१॥
द्विव्यष्टानां द्वा-त्रयोऽष्टाः प्राक् शतादनशीति-बहुव्रीहौ