________________
श्रीसिद्धहेमचन्द्रशब्दानुशासनम्
१६१
उत्तरपदे परे 'बहुव्रीहौ सहस्य सः संज्ञायाम् स्यात् । साश्वत्थं वनम् । अन्यार्थ इत्येव - सहदेवः कुरुः || १४४ || अदृश्या - Sधिके । ३।२।१४५ ॥
अदृश्यम् - परोक्षम्, अधिकम् - अधिरूढं तदर्थयोरुत्तरपदयोर्बहुव्रीही 'सहस्य सः' स्यात् । साग्निः कपोतः सद्रोणा खारी || १४५ || अकालेऽव्ययीभावे |३|२|१४६ ॥
,
अकालवाचिन्युत्तरपदे 'सहस्याव्ययीभावे सः' स्यात् । सब्रह्म साधूनाम् । अकाल इति किम् ? सहपूर्वाह्नं शेते । अव्ययीभाव इति किम् ? सहयुध्वा ॥ ग्रन्थाऽन्ते | ३ |२| १४७॥
एतद्वाच्युत्तरपदे 'सहस्याव्ययीभावे सः' स्यात् । सकलं ज्योतिषमधीते ॥ नाऽऽ शिष्यगो - वत्स-हले १३।२।१४८ ॥
गवादिवर्जे उत्तरपदे आशिषि गम्यायाम् 'सहस्य सो न' स्यात् । स्वस्ति गुरवे सहशिष्याय । आशिषीति किम् ? सपुत्रः । गवादिवर्जनं किम् ? स्वस्ति तुभ्यं सगवे, सहगवे; सवत्साय, सहवत्साय; सहलाय, सहहलाय ॥ समानस्य धर्माऽऽदिषु |३|२|१४९॥
धर्मादावुत्तरपदे 'समानस्य सः स्यात् । सधर्मा, सनामा ॥ १४९ ॥ सब्रह्मचारी |३|२|१५०॥
अयं निपात्यते ॥ १५०॥
दृक्-दृश-वृक्षे ।३।२।१५१ ॥
एषूत्तरपदेषु 'समानस्य सः' स्यात् । सदृक् सदृशः, सदृक्षः ||१५१ ॥ अन्य - त्यदादेराः । ३।२।१५२॥
अन्यस्य त्यदादेश्च दृगादावुत्तरपदे आः' स्यात् । अन्यादृक्, अन्यादृशः,