________________
१४४
श्रीसिद्धहेमचन्द्रशब्दानुशासनम् ॥ शरेजः, शरजः; उरसिजः, उरोजः; मनसिजः, मनोजः ॥२६॥
-प्रावृड्-वर्षा-शरत्-कालात् ॥३॥२॥२७॥ एभ्यः परस्याः ‘सप्तम्या जे उत्तरपदे लुब् न' स्यात् । दिविजः, प्रावृषिजः, वर्षासुजः, शरदिजः, कालेजः ॥२७॥
अपो य-योनि-मति-चरे ।३।२।२८॥ अपः परस्याः ‘सप्तम्या ये प्रत्यये योन्यादौ चोत्तरपदे लुब् न' स्यात् । अप्सव्यः; अप्सुयोनिः, अप्सुमतिः, अप्सुचरः ॥२८॥
नेन-सिद्ध-स्थे ।३।२।२९॥ 'इन्प्रत्ययान्ते सिद्ध-स्थयोश्चोत्तरपदयोर्न लुब् न' स्यात्, भवत्येवेत्यर्थः । स्थण्डिलवर्ती, साङ्काश्यसिद्धः, समस्थः ॥२९॥
__षष्ठ्याः क्षेपे ।३।२।३०॥ उत्तरपदे परे क्षेपे गम्ये 'षष्ठ्या लुब् न' स्यात् । चौरस्यकुलम् ॥३०॥
पुत्रे वा ॥३॥२॥३१॥ पुत्रे उत्तरपदे क्षेपे 'षष्ट्या लुब् वा न' स्यात् । दास्याःपुत्रः, दासीपुत्रः ॥३१॥
पश्यद्-वाग्-दिशो हर-युक्ति-दण्डे ३३२॥३२॥ एभ्यः परस्याः 'षड्या यथासंख्यं हरादावुत्तरपदे लुब् न' स्यात् । पश्यतोहरः, वाचोयुक्तिः, दिशोदण्डः ॥३२॥
अदसोऽकजायनणोः ।३।२॥३३॥ 'अदसः परस्याः षठ्या अकविषये उत्तरपदे आयनणि च परे लुब् न' स्यात् । आमुष्यपुत्रिका, आमुष्यायणः ॥३३॥
देवानांप्रियः ।३।२॥३४॥