________________
श्रीसिद्धहेमचन्द्रशब्दानुशासनम्
१४३ आभ्यां परस्याः ‘सप्तम्या गुरावुत्तरपदे लुब् न' स्यात् । मध्येगुरुः, अन्तेगुरुः ॥२१॥
अमूर्द्ध-मस्तकात स्वाङ्गादकामे ।।२।२२॥ मूर्द्धमस्तकवर्जात् स्वागचाचिनोऽद्व्यञ्जनात् परस्याः ‘सप्तम्याः कामवर्षे उत्तरपदे लुब् न' स्यात् । कण्ठेकालः । अमूर्द्धमस्तकादिति किम् ? मूशिखः, मस्तकशिखः । अकाम इति किम् ? मुखकामः ॥२२॥
बन्ये घनि नवा ॥२॥२३॥ बन्धे घअन्ते उत्तरपदे अद्व्यञ्जनात् परस्याः 'सप्तम्या लुब् वा न' स्यात् । हस्तेबन्धः, हस्तबन्धः; चक्रेबन्धः चक्रबन्धः । घनिति किम् ? अजन्ते - हस्तबन्धः ॥२३॥
कालात् तन-तर-तम-काले ।३।२।२४॥ अद्व्यजनान्तात् कालवाचिनः परस्याः 'सप्तम्यास्तनादिप्रत्ययेषु काले चोत्तरपदे वा लुब् न' स्यात् । पूर्वाह्नेतनः, पूर्वाह्नतनः, पूर्वाहेतराम, पूर्वाहतरे; पूर्वाहेतमाम्, पूर्वाहतमे; पूर्वाहेकाले पूर्वाहकाले । कालादिति किम् । शुक्तरे, शुकृतमे । अयानादित्येव – रात्रितरायाम् ॥२४॥
शय-वासि-वासेष्वकालात् ।३।२।२५॥ अकालवाचिनोऽद्व्यञ्जनात् परस्याः ‘सप्तम्या एकूतरपदेषु लुब् वा न' स्यात् । विलेशयः, बिलशयः; वनेवासी, वनवासी; ग्रामेवासः, ग्रामवासः । अकालादिति किम् ? पूर्वाहशयः ॥२५॥
वर्ष-क्षर-वरा-उप-सरः-शरोरोमनसो जे ॥२॥२६॥ एभ्यः परस्याः 'सप्तम्या जे उत्तरपदे लुब् वा न' स्यात् । वर्षेजः, वर्षजः; क्षरेजः, क्षरजः; वरेजः, वरजः; अप्सुजम्, अब्जम्; सरसिजम्, सरोजम्;