________________
१४२
श्रीसिद्धहेमचन्द्रशब्दानुशासनम् ॥
मनस आत्मनश्च परस्य 'ट आज्ञायिन्युत्तरपदे लुब् न' स्यात् । मनसाSऽज्ञायी, आत्मनाऽऽज्ञायी ||१५||
नाम्नि |३|२|१६ ॥
मनसः परस्य 'टः संज्ञाविषये उत्तरपदे परे लुब् न' स्यात् । मनसादेवी । नाम्नीति किम् ? मनोदत्ता कन्या ॥१६॥ परा - SSत्मभ्यां डे: ।३।२।१७॥
आभ्यां परस्य 'डेवचनस्योत्तरपदे परे नाम्नि लुब् न' स्यात् । परस्मैपदम् आत्मनेपदम् । नाम्नीत्येव परहितम् ||१७||
अद्-व्यञ्जनात् सप्तम्या बहुलम् |३|२|१८ ॥ अदन्ताद् व्यञ्जनान्ताच्च परस्याः 'सप्तम्या बहुलं नाम्नि लुब् न' स्यात् । अरण्येतिलकाः, युधिष्ठिरः । अद्व्यञ्जनादिति किम् ? भूमिपाशः । नाम्नीत्येव - तीर्थकाकः ||१८||
प्राक्कारस्य व्यञ्जने ॥३।२।१९ ॥
राजलभ्यो रक्षानिर्वेशः कारः । प्राचां देशे यः कारः तस्य संज्ञायां गम्यमानायामद्व्यञ्जनात् परस्याः 'सप्तम्या व्यञ्जनादावुत्तरपदे लुब् न' स्यात् । मुकुटेकार्षापणः, समिधिमाषकः । प्रागिति किम् ? यूथपशुः - उदीचा - मयं न प्राचाम् । कार इति किम् ? अभ्यर्हितपशुः । व्यञ्जन इति किम् ? अविकटोरणः ॥१९॥
तत्पुरुषे कृति | ३|२|२०॥
अद्व्यञ्जनात् परस्याः 'सप्तम्याः कृदन्ते उत्तरपदे तत्पुरुषे लुब् न' स्यात् । स्तम्बेरमः, भस्मनिहुतम् । तत्पुरुष इति किम् ? धन्वकारकः । अयञ्जनादित्येव - कुरुचरः ॥२०॥
मध्याऽन्ताद् गुरौ । ३।२।२१॥