________________
श्रीसिद्धहेमचन्द्रशन्दानुशासनम् ___१४१
१४१ न नाम्येकस्वरात खित्युत्तरपदेऽमः ।३।२।९॥ समासारम्भकमन्त्यं पदम्-उत्तरपदम्, तस्मिन् खित्प्रत्ययान्ते उत्तरपदे परे 'नाम्यन्तादेकस्वरात् पूर्वपदात् परस्याऽमो लुब् न' स्यात् । स्त्रियंमन्यः, नावंमन्यः । नामीति किम् ? ममन्यः । एकस्वरादिति किम् ? वधुंमन्या । खितीति किम् ? स्त्रीमानी ॥९॥
असत्वे उसेः ३३२॥१०॥ 'असत्वे विहितस्य उसेरुत्तरपदे परे लुब् न' स्यात् । स्तोकान्मुक्तः । असत्त्व इति किम् ? स्तोकभयम् । उत्तरपद इत्येव- निःस्तोकः ॥१०॥
ब्राह्मणाच्छंसी ।३।२१११॥ अत्र समासे 'उसेटुबमावो निपात्यते' । ब्राह्मणाच्छंसिनौ । निपातनाद् ऋत्विविशेषादन्यत्र लुबेव - ब्राह्मणशंसिनी स्त्री ॥११॥
ओजो-ऽजः-सहो-ऽम्भस्-तमस्-तपसष्टः ।३।२।१२॥ एभ्यः परस्य 'टावचनस्योत्तरपदे परे लुब् न' स्यात् । ओजसाकृतम्, अअसाकृतम्, सहसाकृतम्, अम्भसाकृतम्, तमसाकृतम्, तपसाकृतम् । ट इति किम् ? ओजोमावः ॥१२॥
पुंजनुषोऽनुजा-ऽन्ये ।३।२।१३॥ पुम्-जनुभ्यां परस्य 'टो यथासंख्यमनुजेऽन्धे चोत्तरपदे लुब् न' स्यात् । पुंसाऽनुजः, जनुषाऽन्धः । ट इत्येव- पुमनुजा ॥१३॥
आत्मनः पूरणे ।३।२।१४॥ अस्मात् परस्य 'टः पूरणप्रत्ययान्ते उत्तरपदे लुब् न' स्यात् । आत्मनाद्वितीयः, आत्मनाषष्ठः ॥१४॥
मनसचाऽऽज्ञायिनि ।३।२।१५॥