________________
१४०
श्रीसिद्धहेमचन्द्रशब्दानुशासनम् ॥ उपकुम्भं देहि । अव्ययीभावस्येति किम् ? प्रियोपकुम्भोऽयम् । अत इति किम् ? अधिस्त्रि । अपञ्चम्या इति किम् ? उपकुम्भात् ॥२॥
वा तृतीयायाः ॥२३॥ 'अदन्तस्याव्ययीभावस्य तृतीयाया अम् वा' स्यात् । किं न उपकुम्भम्, किं न उपकुम्भेन । अव्ययीभावस्येति किम् ? प्रियोपकुम्भेन ॥३॥
सप्तम्या वा ३२॥४॥ 'अदन्तस्याव्ययीभावस्य सप्तम्या अम् वा' स्यात् । उपकुम्भम्, उपकुम्भे निधेहि । अव्ययीभावस्येत्येव- प्रियोपकुम्भे ॥४॥
ऋद्ध-नदी-वंशस्य ३२।५॥ एतदन्तस्याऽव्ययीभावस्याऽदन्तस्य “सप्तम्या अम् नित्यम्' स्यात् । सुमगधम्, उन्मत्तगङ्गम्, एकविंशतिभारद्वाजं वसति ॥५॥
अनतो लुप् ।३।२।६॥ 'अदन्तवर्जस्याऽव्ययीभावस्य स्यादेर्लुप्' स्यात् । उपवधु, उपकर्तृ । अनत इति किम् ? उपकुम्मात् । अव्ययीभावस्येत्येव- प्रियोपवधुः ॥६॥
अव्ययस्य ।३॥२७॥ 'अव्ययस्य स्यादे प्' स्यात् । स्वः, प्रातः । अव्ययस्येति किम् ? अत्युचैसः ॥७॥
ऐकार्थे ।३।२८॥ 'ऐकार्यम्- ऐकपद्यं तनिमित्तस्य स्यादेर्लुप्' स्यात् । चित्रगुः, पुत्रीयति,
औपगवः । अत एव लुविधानाद् "नाम नाम्ना० (३, १, १८)" इत्युक्तावपि स्याघन्तानां समासः स्यात् । ऐकार्य इति किम् ? चित्रा गावो यस्येत्यादिवाक्ये मा भूत् ॥८॥