________________
श्रीसिद्धहेमचन्द्रशब्दानुशासनम्
१४५
अत्र 'षष्ट्या लुब् न' स्यात् । देवानांप्रियः ॥३४।।
शेप-पुच्छ-लागूलेषु नाम्नि शुनः ।३।२।३५॥ शुनः परस्याः 'षष्ठ्याः शेपादावुत्तरपदे संज्ञायां लुब् न' स्यात् । शुनःशेपः, शुनःपुच्छः, शुनोलाशूलः ॥३५॥
वाचस्पति-वास्तोष्पति-दिवस्पति-दिवोदासम् ॥३२॥३६॥ 'एते समासाः षष्ठ्यलुपि निपात्यन्ते नाम्नि' । वाचस्पतिः, वास्तोष्पतिः, दिवस्पतिः, दिवोदासः ॥३६।।
ऋतां विद्या-योनिसम्बन्थे ।३।२।३७॥ UR 'ऋदन्तानां विद्यया योन्या वा कृते सम्बन्धे हेतौ सति प्रवृत्तानां षष्ठ्यास्तत्रैव हेतौ सति प्रवृत्ते उत्तरपदे लुब् न स्यात् । होतुःपुत्रः, पितुःपुत्रः, पितुरन्तेवासी । ऋतामिति किम् ? आचार्यपुत्रः । विद्यायोनिसम्बन्ध इति किम् ? भर्तृगृहम् ॥३७॥
स्वसृ-पत्योर्वा ॥२॥३८॥ ५. 'विद्यायोनिसम्बन्धनिमित्तानाम् ऋदन्तानां षष्ठ्याः स्वसृपत्योरुत्तरपदयोयोनिसम्बन्धनिमित्तयोर्छन् वा न' स्यात् । होतुःस्वसा, होतृस्वसा; स्वसुःपतिः, स्वसृपतिः । विद्यायोनिसम्बन्ध इत्येव- भर्तृस्वसा, होतृपतिः ॥३८॥
आ द्वन्द्वे ३३२॥३९॥ . 'विद्यायोनिसम्बन्धनिमित्तानाम् ऋदन्तानां यो द्वन्द्वस्तस्मिन् सत्युत्तरपदे पूर्वपदस्याऽऽत्' स्यात् । होतापोतारी, मातापितरौ । ऋतामित्येव- गुरुशिष्यो । विद्यायोनिसम्बन्ध इत्येव- कर्तृकारयितारौ ॥३९॥
पुत्रे ३२२४०॥ . . 'पुत्रे उत्तरपदे विद्यायोनिसम्बन्धनिमित्तानाम् ऋदन्तानां द्वन्द्वे आः'