________________
श्रीसिद्धहेमचन्द्रशब्दानुशासनम्
१३७ वर्तिपदार्थानां संख्यानस्य समीपे गम्ये 'द्वन्द्व एकार्थो वा' स्यात् । उपदशं गोमहिषम्, उपदशा गोमहिषाः ॥१४७।। स.. .
'प्रथमोक्तं प्राक् ।३।१।१४८॥ (Yuv sv19914 नो अत्र ‘समासप्रकरणे प्रथमान्तेन यनिर्दिष्टं तत् प्राक्' स्यात् । आसन्नदशाः, सप्तगङ्गम् ॥१४८॥
राजदन्ताऽऽदिषु ।३।११४९॥ 'एतेषु समासेष्वप्राप्तप्रागनिपातं प्राक् स्यात् । राजदन्तः, लिप्तवासितम् ।।१४९॥
विशेषण-सर्वादि-संख्यं बहुव्रीहौ ।३।१११५०॥ नली. 'विशेषणं सर्वादि संख्यावाचि च बहुव्रीही प्राक्' स्यात् । चित्रगुः, सर्वशुक्लः, द्विकृष्णः ॥१५०॥
ताः ।३.१1१५१॥ 'क्तान्तं सर्वं बहुव्रीही प्राक् स्यात् । कृतकटः ॥१५१॥
जाति-काल-सुखादेर्नवा ।३।१११५२॥ जातेः कालात् सुखादिभ्यश्च 'बहुव्रीहौ क्तान्तं वा प्राक्' स्यात् । शाङ्गरजग्धी, जग्धशारा; मासजाता, जातमासा; सुखजाता, जातसुखा; दुःखहीना, हीनदुःखा ॥१५२॥
आहिताग्न्यादिषु ।३।१।१५३॥ 'एषु बहुव्रीहिषु क्तान्तं वा प्राक् स्यात् । आहिताग्निः, अग्न्याहितः; जातदन्तः, दन्तजातः ॥१५३॥
प्रहरणात् ।३।११५४॥ प्रहरणार्थात् 'तान्तं बहुव्रीही वा प्राक्' स्यात् । उद्यतासिः, अस्युद्यतः ।।१५४॥
न सप्तमीन्दादिभ्यश्च ।३।१।१५५॥