________________
१३८
श्रीसिद्धहेमचन्द्रशब्दानुशासनम् ॥ इन्द्वादेः प्रहरणार्याच 'प्राक् सप्तम्यन्तं बहुव्रीही न' स्यात् । इन्दुमौलिः, पद्मनाभः, असिपाणिः ॥१५५॥
गड़वादिभ्यः ।३।११५६॥ गड्वादिभ्यो 'बहुव्रीही सप्तम्यन्तं प्राग् वा' स्यात् । कण्ठेगडुः, गडुकण्ठः; मध्येगुरुः, गुरुमध्यः ॥१५६॥
प्रियः ।३।११५७॥ अयम् 'बहुव्रीही प्राग् वा' स्यात् । प्रियगुडः, गुडप्रियः ॥१५७॥
कडारादयः कर्मधारये ।३।११५८॥ धास्थ 'एते कर्मधारये प्राग् वा' स्युः । कडारजैमिनिः, जैमिनिकडारः; काणद्रोणः, द्रोणकाणः ||१५८॥
धर्मार्थादिषु द्वन्दे ।३।११५९॥ बन्द 'एषु द्वन्द्वेष्वप्राप्तप्राक्त्वं वा प्राक्' स्यात् । धार्थी, अर्थधर्मी; शब्दार्थी, अर्थशब्दौ ॥१५९॥ लवक्षरा-ऽसखीदुत्- स्वरायदल्पस्वरा-ऽर्यमेकम्
३191१६०॥ 'लघ्वक्षरं सखिवर्जेदुदन्तं स्वराधकारान्तमल्पस्वरं पूज्यवाचि चैकं द्वन्द्वे प्राक्' स्यात् । शरशीयम्, अग्नीषोमी, वायुतोयम् । असखीति किम् ? सुतसखायौ । अस्त्रशस्त्रम्, पक्षन्यग्रोधौ, श्रद्धामेधे । लघ्वादीति किम् ? कुक्कुटमयूरी, मयूरकुक्कुटी । एकमिति किम् ? शादुन्दुभिवीणाः । द्वन्द्व इत्येव विस्पष्टपटुः ।।१६०॥
मास-वर्ण-भ्रात्रऽनुपूर्वम् ।३।१।१६१॥ एतद्वाचि 'द्वन्द्वेऽनुपूर्व प्राक्' स्यात् । फाल्गुनचैत्री, ब्राह्मणक्षत्रियौ,