________________
3.B
އ
१३६
श्रीसिद्धहेमचन्द्र शब्दानुशासनम् ॥
त्यानामयने । अध्वर्व्विति किम् ? इषुवज्रौ । क्रतोरिति किम् ? दर्शपीर्ण
मासौ ॥१३९॥
81.21
3.2.
A. निकटपाठस्य | ३|१|१४० ॥
निकटः पाठो येषामध्येतॄणां तेषाम् ' स्वैर्द्वन्द्व एकार्थः ' स्यात् । पदकक्रमकम् ॥१४०॥
ॐ नित्यवैरस्य । ३।१।१४१॥
नित्यं जातिनिबद्धं वैरं येषां तेषाम् ' स्वैर्द्वन्द्व एकार्थः ' स्यात् । अहिनकुलम् । नित्यवैरस्येति किम् ? देवासुराः, देवासुरम् ॥ १४१ ॥
स.इ नदी-देश- पुरां विलिङ्गानाम् | ३|१|१४२ ॥
एषां विविधलिङ्गानाम् 'स्वैर्द्वन्द्व एकार्थः' स्यात् । गङ्गाशोणम्, कुरुकुरुक्षेत्रं, मथुरापाटलिपुत्रम् । विलिङ्गानामिति किम् ? गङ्गायमुने ॥ १४२ ॥
39.2
पात्र्यशूद्रस्य | ३|१|१४३॥
स.अ
पात्रार्ह - शूद्रवाचिनाम् ' स्वैर्द्वन्द्व एकार्थः ' स्यात् । तक्षायस्कारम् । पात्र्येति किम् ? जनङ्गमबुक्कसाः || १४३ ||
स.अ. गवाश्वादिः | ३|१|१४४ ॥
'अयं द्वन्द्व एकार्थः ' स्यात् । गवाश्वम्, गवाविकम् ||१४४ || ॐ न दधिपय-आदिः | ३|१|१४५ ॥
9
'दधिपय आद्यो द्वन्द्व एकार्थो न स्यात् । दधिपयसी, सर्पिर्मधुनी ॥१४५॥ संख्याने | ३|१|१४६॥
8.3
वर्तिपदार्थानां गणने गम्ये 'द्वन्द्व एकार्थो न' स्यात् । दश गोमहिषाः, बहवः पाणिपादाः || १४६ ॥
वाऽन्तिके |३|१|१४७॥