________________
१३४
श्रीसिद्धहेमचन्द्रशब्दानुशासनम् ॥ च शुक् च-शुक्के । तन्मात्रभेद इत्येव- हिमहिमान्यौ ॥१२८॥
६ पुष्यार्थाद् भे पुनर्वसुः ।३।१।१२९॥ 'पुष्यानिक्षत्रवृत्तेः परो नक्षत्रवृत्तिः पुनर्वसुः सहोक्तौ व्यर्थः सन् एकार्थः' स्यात् । उदितौ पुष्यपुनर्वसू, उदितौ तिष्यपुनर्वसू । पुष्यादिति किम् ? आर्द्रापुनर्वसवः । पुनर्वसुरिति किम् ? पुष्यमघाः । म इति किम् ? तिष्य
वो बालाः ॥१२सात किम् ? पुष्यवसू । पुष्पादित
विरोधिनामद्रव्याणां नवा द्वन्दः स्वैः ।३।११३०॥ द्रव्यम्- गुणाधाश्रयः, “विरोधिवाचिनाम् अतदाश्रयवृत्तीनां द्वन्द्वो वैकार्थः स्यात्, स्वैः- सजातीयैरेवाऽऽरब्धश्चेत्' । सुखदुःखम् , सुखदुःखे; लामालाभम्, लाभालाभौ । विरोधिनामिति किम् ? कामक्रोधी । अद्रव्याणामिति किम् ? शीतोष्णे जले । स्वैरिति किम् ? बुद्धिसुखदुःखानि ॥१३०॥
अश्ववडव- पूर्वापरा-ऽधरोत्तराः ।३।११३१॥ “एते त्रयोऽपि द्वन्द्वा एकार्या वा स्युः, स्वैश्चेत् । अश्ववडवम्, अश्ववडवी; पूर्वापरम्, पूर्वापरे; अधरोत्तरम्, अधरोत्तरे ॥१३॥
- पशु-व्यन्जनानाम् ।३।१।१३२॥ पशूनां व्यजनानां च 'स्वैर्द्वन्द्व एकार्यो वा' स्यात् । गोमहिषम्, गोमहिषा; दधिघृतम्; दधिघृते ॥१३२॥
तरु-तृण-धान्य-मृग-पक्षिणां बहुत्वे ।३।१।१३३॥ एतद्वाचिनां बहानां प्रत्येकम् 'स्वैर्द्वन्द्व एकार्थो वा' स्यात् । पक्षन्यग्रोधम्, पक्षन्यग्रोधाः; कुशकाशम्, कुशकाशाः; तिलमाषम्, तिलमाषाः; ऋश्यणम्, ऋश्यणाः; हंसचक्रवाकम्, हंसचक्रवाकाः ॥१३३॥
- सेनाङ्ग-क्षुद्रजन्तूनाम् ।३।१।१३४॥