________________
श्रीसिद्धहेमचन्द्रशब्दानुशासनम् वृद्धो यूना तन्मात्रभेदे | ३|१|१२४॥
यूना सहोक्तौ 'वृद्धवाच्येकः शिष्यते तन्मात्रभेदे'- न चेत् प्रकृतिभेदोऽर्थभेदो वाऽन्यः स्यात् । गार्ग्यश्च गार्ग्यायणश्च = गायौं । वृद्ध इति किम् ? गर्गगार्ग्यायणौ । यूनेति किम् ? गार्ग्यगर्गौ । तन्मात्रभेद इति किम् ? गार्ग्यवात्स्यायनी ॥ १२४॥
१३३
स्त्री पुंवच |३|१|१२५ ॥
'वृद्धस्त्रीवाची यूना सहोक्तौ एकः शिष्यते, पुल्लिङ्गश्चायं तन्मात्रभेदे' | गार्गी च गार्ग्यायणश्च = गार्ग्य, गार्गी च गार्ग्यायणी च = गर्गान् ||१२५॥ पुरुषः स्त्रिया | ३|१|१२६॥
पुरुषशब्दः प्राणिनि पुंसि रूढः, स्त्रीवाचिना सहोक्ती 'पुरुष एकः शिष्यते' स्त्रीपुरुषमात्रभेदश्चेत् । ब्राह्मणश्च ब्राह्मणी च = ब्राह्मणौ । पुरुष इति किम् ? तीरं नदनदीपतेः । तन्मात्रभेद इत्येव - स्त्रीपुंसौ ॥ १२६ ॥
ग्राम्याऽशिशुद्विशफसंघे स्त्री प्रायः | ३|१|१२७ ॥
ग्राम्या अशिशवो ये द्विशफा - द्विखुरा अर्थात् पशवस्तेषां संघे स्त्रीपुरुषसहोक्तौ 'प्रायः स्त्रीवाच्येकः शिष्यते' स्त्रीपुरुषमात्रभेदश्चेत् । गावश्च स्त्रियः गावश्च नराः-इमा गावः । ग्राम्येति किम् ? रुरवश्चेमे रुरवश्चेमाः = इमे रुरवः । अशिश्विति किम् ? बर्कर्यश्च बर्कराश्च = बर्कराः । द्विशफेति किम् ? गर्दभाश्च गर्दभ्यश्च = गर्दभाः । संघ इति किम् ? गौश्चायं गौश्चेयम् - इमौ गावौ । प्राय इति किम् ? उष्ट्र्यश्च उष्ट्राश्च = उष्ट्राः ॥१२७|| कीबमन्येनैकं च वा | ३|१|१२८॥
शेष
क्लीबम्- 'नपुंसकम्, अन्येना-ऽक्कीबेन सहोक्तावेकं शिष्यते, कीबाऽकीबमात्रभेदे, तच्च शिष्यमाणमेकमेकार्थं वा स्यात् । शुकुं च शुकश्च - शुकं शुके वा । शुक्लं च शुकश्च शुक्रा च शुक्लं शुक्लानि वा । अन्येनेति किम् ? शुकं