________________
१३२
श्रीसिद्धहेमचन्द्रशब्दानुशासनम् ॥ सभा समानामर्थेनैकः शेषः ।३।१११८॥ अर्थेन समानाम्- 'समानार्थानां सहोक्ती गम्यायामेकः शिष्यते' अर्यादन्ये निवर्तन्ते । वक्रश्च कुटिलश्च वक्री कुटिलौ वा । सितश्च शुकुश्च श्वेतश्च= सिताः शुक्लाः श्वेता वा । अर्थेन समानामिति किम् ? पक्षन्यग्रोधौ । सहोक्तावित्येव – वक्रश्च कुटिलश्च दृश्यः ॥११८॥
स्यादावसंख्येयः ।३।११११९॥ सर्वस्मिन् स्यादौ विभक्तौ समानाम्- 'तुल्यरूपाणां सहोक्तावेकः शिष्यते, न तु संख्येयवाची' । अक्षश्च शकटस्य, अक्षश्च देवनः, अक्षश्च बिभीतकः= अक्षाः । स्यादाविति किम् ? माता च जननी, माता च धान्यस्य मातृमातारौ । असंख्येय इति किम् ? एकश्चैकश्च ॥११९॥
त्यदादिः ।३.१1१२०॥ त्यदाद्यैरन्येन च सहोक्ती 'त्यदादिरेवैकः शिष्यते' । स च चैत्रश्च-तौ, स च यश्च-यौ, अहं च स च त्वं च-वयम् ॥१२०॥
भ्रातृ-पुत्राः स्वस-दुहितृभिः ।३।१।१२१॥ 'स्वनर्थेन सहोक्तौ भ्रात्रों, दुहित्रर्थेन च पुत्रार्थ एकः शिष्यते' । भ्राता च स्वसा चभ्रातरौ, पुत्रश्च दुहिता च-पुत्रौ ॥१२१॥
पिता मात्रा वा ।३।१११२२॥ मातृशब्देन सहोक्ती पितृशब्द एको वा शिष्यते' । पिता च माता च-पितरौ, मातापितरौ ॥१२२॥
"श्वशुरः श्वश्रूभ्यां वा ।३।१।१२३॥ श्वश्रूशब्देन सहोक्ती 'श्वशुर एको वा शिष्यते' । श्वशुरौ, श्वश्रूश्वशुरौ ॥१२३॥