________________
श्रीसिद्धहेमचन्द्रशब्दानुशासनम्
१३१
धारयश्च' स्यात् । गोगर्भिणी, महिषगर्भिणी । जातिरित्येव कालाक्षी गर्भिणी ॥ ११२ ॥
युवा खलति - पलित- जरद्-वलिनैः |३|१|११३॥ युवन्नित्येकार्थमेभिः 'समासस्तत्पुरुषः कर्मधारयश्च स्यात् । युवखलतिः, युवपलितः, युवजरन्, युववलिनः, युववलिना ॥११३॥
कृत्य - तुल्याऽऽख्यमजात्या | ३|१|११४ ॥
कृत्यान्तं तुल्यपर्यायं चैकार्थमजात्यर्थेन सह 'समासस्तत्पुरुषः कर्मधारयश्च' स्यात् । भोज्योष्णम्, स्तुत्यपटुःः तुल्यसन् सदृशमहान् । अजात्येति किम् ? भोज्य ओदनः ||११४ ||
कुमारः श्रमणादिना । ३।१।११५॥
कुमार इत्येकार्थ श्रमणादिना 'समासस्तत्पुरुषः कर्मधारयश्च' स्यात् । कुमार श्रमणा, कुमारप्रव्रजिता ॥ ११५ ॥ ઉપમાનાપમયमधुरध्यक्षक मध्यमपलोपी मयूरव्यंसकेत्यादयः |३|१|११६ ॥ अपधारण तालु एते 'तत्पुरुषसमासा निपात्यन्ते । मयूरव्यंसकः, कम्बोजमुण्डः; एहीडं कर्म, अश्नीतपिबता क्रिया, कुरुकटो वक्ता, गतप्रत्यागतम्, क्रयाक्रयिका, शाकपार्थिवः, त्रिभागः, सर्व श्वेतः ||११६ ॥
तरेतर
સમાર
चार्थे द्वन्द्वः सहोक्तौ । ३।१।११७॥ नाम नाम्ना सह 'सहोक्तिविषये चार्यवृत्तिः समासो द्वन्द्वः स्यात् । पुक्षन्यग्रोधी, वाक्त्वचम् । नाम नाम्नेत्यनुवृत्तावपि "लघ्वक्षरा० (३,१,१६० ) " - दिसूत्रे एकग्रहणाद् बहूनामपि - धवखदिरपलाशाः । चार्य इति किम् ? वीप्सासहोक्तौ मा भूत्- ग्रामो ग्रामो रमणीयः । सहोक्ताविति किम् ? पूक्षश्च न्यग्रोधश्च वीक्ष्यताम् ॥ ११७||
-