________________
१२८
श्रीसिद्धहेमचन्द्रशन्दानुशासनम् ॥
सिमास
पूर्वः कालो यस्य तद्वाच्येकादीनि चैकार्थानि परेण नाम्ना ‘समासस्तत्पुरुषः कर्मधारयश्च' स्यात् । स्नातानुलिप्तः, एकशाटी, सर्वान्नम्, जरद्वः, पुराणकविः, नवोक्तिः, केवलज्ञानम् । एकार्थमित्येव- स्नात्वाऽनुलिप्तः ॥९७।।
दिगधिकं संज्ञा-तद्धितोत्तरपदे ।३।१।९८॥ दिग्वाच्यधिकं चैकार्थ नाम्ना 'समासस्तत्पुरुषः कर्मधारयश्च' स्यात्, संज्ञायां तद्धिते च विषयभूते उत्तरपदे च परतः । दक्षिणकोशलाः, पूर्वेषुकामशमी, दाक्षिणशालः; अधिकषाष्टिकः; उत्तरगवधनः, अधिकगवप्रियः ॥९८॥
संख्या समाहारे च द्विगुश्वाऽनाम्न्ययम् ।३।११९९॥ संख्यावाचि परेण नाम्ना 'समासस्तत्पुरुषः कर्मधारयश्च' स्यात्, संज्ञातद्धितयोर्विषये, उत्तरपदे च परे, समाहारे चार्थे, 'अयमेव चाऽसंज्ञायां द्विगुश्च' । पञ्चाम्राः, सप्तर्षयः; द्वैमातुरः, अध्यर्द्धकंसः; पञ्चगवधनः, पञ्चनावप्रियः; पञ्चराजी । समाहारे चेति किम् ? अथै प्रवचनमातरः । अनाम्नीति किम् ? पाञ्चर्षम् ॥१९॥
निन्यं कुत्सनैरपापायैः ।३।११००॥ निन्धवाचि निन्दाहेतुभिः पापादिवर्जः सह 'समासस्तत्पुरुषः कर्मधारयश्च' स्यात् । वैयाकरणखसूची, मीमांसकदुर्दुरूढः । निन्द्यमिति किम् ? वैयाकरणश्चौरः । अपापाचैरिति किम् ? पापवैयाकरणः, हतविधिः ॥१००।
4HI1JUL.S उपमानं सामान्यैः ।३।१।१०१॥ उपमानवाच्येकार्थमुपमानोपमेयसाधारणधर्मवाचिभिरेव 'समासस्तत्पुरुषः कर्मधारयश्च' स्यात् । शस्त्रीश्यामा, मृगचपला । उपमानमिति किम् ?
देवदत्ता श्यामा । सामान्यैरिति किम् ? अग्निर्माणवकः ॥१०१॥ Guediate.5 उपमेयं व्याघ्रायैः साम्यानक्तौ ।३।११०२॥
उपमेयवाच्येकार्थमुपमानवाचिभिर्व्याघ्राद्यैः साधारणधर्मानुक्तौ 'समासस्तत्पुरुषः