________________
श्रीसिद्धहेमचन्द्रशब्दानुशासनम्
१२९ कर्मधारयश्च' स्यात् । पुरुषव्याघ्रः, श्वसिंही । साम्यानुक्ताविति किम् ? पुरुषव्याघ्रः शूर इति मा भूत् ॥१०२॥ पूर्वा-ऽपर-प्रथम-चरम-जघन्य-समान-मध्य-मध्यम-वीरम्
३१1१०३॥ वि.५.६ एतान्येकानि परेण नाम्ना ‘समासस्तत्पुरुषः कर्मधारयश्च' स्युः । पूर्वपुरुषः, अपरपुरुषः, प्रथमपुरुषः, चरमपुरुषः, जघन्यपुरुषः, समानपुरुषः, मध्यपुरुषः, मध्यमपुरुषः, वीरपुरुषः ॥१०३॥
श्रेण्यादि कृतायैश्च्यर्थे ।३।१।१०४॥ श्रेण्याघेकार्य कृताद्यैः सह व्यर्थे गम्ये 'समासस्तत्पुरुषः कर्मधारयश्च' स्यात् । श्रेणिकृताः, ऊककृताः । च्यर्थ इति किम् ? श्रेणयः कृताः किञ्चित् ॥१०४॥
तं नजादिभिन्नैः ।३।११०५॥ वि.3.s. तान्तमेकार्य नप्रकारैरेव यानि भिन्नानि तैः सह 'समासस्तत्पुरुषः कर्मधारयश्च' स्यात् । कृताकृतम्, पीताऽवपीतम् । क्तमिति किम् ? कर्त्तव्यमकर्तव्यं च । नादिमिन्नैरिति किम् ? कृतं प्रकृतम्, कृतं चाऽविहितं च ॥१०५॥
सेनाऽनिटा ।३.१1१०६॥ 3.5 'सेट् क्तान्तं नादिभिनेनाऽनिटा सह न समस्यते' । क्लिशितमलिष्टम्, शितमशातम् । सेडिति किम् ? कृताकृतम् । अनिटेति किम् ? अशितानशितम् ॥१०६॥
सन्महत्परमोत्तमोत्कृष्टं पूजायाम् ।३।१।१०७॥ वि. ५.३ एतान्येकानि पूजायां गम्यमानायां पूज्यवचनैः सह 'समासस्तत्पुरुषः