________________
१२७
श्रीसिद्धहेमचन्द्रशब्दानुशासनम्
पात्रेसमितेत्यादयः ।३।१।९१॥ एते 'सप्तमीतत्पुरुषाः क्षेपे निपात्यन्ते' । पात्रेसमिताः, गेहेशूरः ॥११॥
तेन ।३।११९२॥ 'सप्तम्यन्तं क्तान्तेन क्षेपे समासस्तत्पुरुषः' स्यात् । भस्मनिहुतम्, अवतनकुलस्थितम् ॥१२॥
तबाहोरात्रांशम् ।३।११९३॥ तत्रेति “सप्तम्यन्तम्, अहरवयवा रात्र्यवयवाश्च सप्तम्यन्ताः क्तान्तेन समासस्तत्पुरुषः' स्यात् । तत्रकृतम्, पूर्वाहकृतम्, पूर्वरात्रकृतम् । तत्राहोरात्रांशमिति किम् ? घटे कृतम् । अहोरात्रग्रहणं किम् ? शुक्लपक्षे कृतम् । अंशमिति किम् ? अनि मुक्तम्, रात्रौ नृत्तम् ॥१३॥
नाम्नि ।३.१९४॥ 'सप्तम्यन्तं नाम्ना संज्ञाविषये समासस्तत्पुरुषश्च' स्यात् । अरण्येतिलकाः, अरण्येमाषकाः ॥१४॥
कृयेनाऽऽवश्यके ।३।१।९५॥ “सप्तम्यन्तं नाम “य एघातः (५, १, २८)" इति यान्तेनाऽवश्यम्भावे गम्ये समासस्तत्पुरुषः' स्यात् । मासदेयम् । कृदिति किम् ? मासे पित्र्यम् ॥१५॥
विशेषणं विशेष्येणैकार्य कर्मधारयश्च ।।१९६॥ वि५.s. मित्रप्रवृत्तिनिमित्तयोः शब्दयोरेकस्मिन्नर्थे वृत्तिरैकार्थ्यम्, तद् 'विशेषणवाचि विशेष्यवाचिनैकार्ये समासस्तत्पुरुषः कर्मधारयश्च' स्यात् । नीलोत्पलम्; खजकुण्टः, कुण्टखनः । एकार्थमिति किम् ? वृद्धस्योक्षा=वृद्धोता ॥१६॥
पूर्वकालैक-सर्व-जरत-पुराण-नव-केवलम् ।३।१।९७॥4.6.5.