________________
१२६
श्रीसिद्धहेमचन्द्रशब्दानुशासनम् ॥ दोहोऽगोपालकेन । तृतीयायामिति किम् ? शब्दानुशासनं गुरोः ॥८४॥
तृप्तार्थ-पूरणा-ऽव्यया-ऽतृश्-शत्रानशा ।३।११८५॥ तृप्ताथैः पूरणप्रत्ययान्तैरव्ययैरतृशन्तैः शत्रन्तैरानशन्तैश्च 'षष्ठ्यन्तं न समस्यते'। फलामां तृप्तः, तीर्थकृतां षोडशः, राज्ञः साक्षात्, रामस्य द्विषन्, चैत्रस्य पचन्, मैत्रस्य पचमानः ॥८५॥
ज्ञानेच्छाऽर्चार्थाऽऽधारक्तेन ।३।११८६॥ ज्ञानेच्छार्थेिभ्यो यो वर्तमाने तो यश्च “अद्यर्याचाधारे (५.१.१२.)" इत्याधारे क्तस्तदन्तेन 'षष्ठ्यन्तं न समस्यते' । राज्ञां ज्ञातः, राज्ञामिष्टः, राज्ञां पूजितः, इदमेषां यातम् ॥८६॥
अस्वस्थगुणैः ।३।११८७॥ ये गुणाः स्वात्मन्येव तिष्ठन्ति न द्रव्ये ते स्वस्थास्तप्रतिषेधेनाऽस्वस्थगुणवाचिभिः 'षष्ठ्यन्तं न समस्यते' । पटस्य शुकः, गुडस्य मधुरः । अस्वस्थगुणैरिति किम् ? घटवर्णः, चन्दनगन्धः ।।८७॥
स.त. सप्तमी शौण्डायैः ।३।११८८॥ एभिः सहकार्ये 'सप्तम्यन्तं समासस्तत्पुरुषः' स्यात् । पानशौण्डः, अक्षधूर्तः ॥८॥
सिंहायैः पूजायाम् ।३।११८९॥ एभिः ‘सप्तम्यन्तं समासस्तत्पुरुषः' स्यात्, पूजायां गम्यमानायाम् । समरसिंहः, भूमिवासवः ॥८९॥
काकायैः क्षेपे ।३।१।९०॥ एभिः 'सप्तम्यन्तं निन्दायां गम्यमानायां समासस्तत्पुरुषः' स्यात् । तीर्थकाकः, तीर्थश्वा । क्षेप इति किम् ? तीर्थे काकोऽस्ति ॥९॥