________________
श्रीसिद्धहेमचन्द्रशन्दानुशासनम्
१२३
ईषदव्ययं गुणवचनैः 'समासस्तत्पुरुषः' स्यात् । ये गुणे वर्तित्वा तद्योगाद् गुणिनि वर्तन्ते ते गुणवचनाः । ईषपिङ्गलः, ईषद्रक्तः । गुणवचनैरिति किम् ? ईषद्गार्यः ॥६४॥
तृतीया तत्कृतैः ।३।१।६५॥ .fu.dry. तृतीयान्तं तदर्थकृतैर्गुणवचनैरैकार्ये 'समासस्तत्पुरुषः' स्यात् । शकुलाखण्डः, मदपटुः । तत्कृतैरिति किम् ? अक्ष्णा काणः । गुणवचनैरित्येव - दजा पटुः पाटवमित्यर्थः ॥६५॥
चतम्रार्द्धम् ।३।१।६६॥ अर्द्धस्तृतीयान्तस्तत्कृतार्थेन चतसृशब्देन 'समासस्तत्पुरुषः' स्यात् । अर्द्धचतम्रो मात्राः । चतरोति किम् ? अर्डेन कृताश्चत्वारो द्रोणाः ॥६६।।
ऊनार्थपूर्वायैः ।३।१।६७॥ तृतीयान्तम् ऊनाथैः पूर्वाधश्च ‘समासस्तत्पुरुषः' स्यात् । माषोनम्, माषविकलम्; मासपूर्वः, मासावरः ॥६७॥
कारकं कृता ।३।१।६८॥ कारकवाचि तृतीयान्तं कृदन्तेन 'समासस्तत्पुरुषः' स्यात् । आत्मकृतम्, नखनिर्भित्रः, काकपेया नदी, बाष्पच्छेद्यानि तृणानि । कारकमिति किम् ? विधयोषितः ॥६॥
नविंशत्यादिनैकोऽचान्तः ।३।१।६९॥ एकशब्दस्तृतीयान्तो नविंशत्यादिना सह 'समासस्तत्पुरुषः स्यात्, एकस्य चाऽदन्तः' । एकानविंशतिः, एकाद्नविंशतिः; एकात्रत्रिंशत्, एकाद्नत्रिंशत् ॥६९॥
चतुर्थी प्रकृत्या ।३।११७०॥ यत. प्रकृतिः - परिणामि कारणम्, एतद्वाचिनैकार्थे 'चतुर्थ्यन्तं