________________
१२४
श्रीसिद्धहेमचन्द्रशब्दानुशासनम् ॥ विकारार्थं समासस्तत्पुरुषः' स्यात् । यूपदारु । प्रकृत्येति किम् ? रन्धनाय स्थाली ॥७०॥
हितादिभिः ।३।१७१॥ 'चतुर्थ्यन्तं हिताद्यैः समासस्तत्पुरुषः' स्यात् । गोहितम्, गोसुखम् ॥७१॥
तदर्थाऽर्थेन ।३।१७२॥ चतुर्थ्यर्थो यस्य तेनार्थेन 'चतुर्थ्यन्तं समासस्तत्पुरुषः' स्यात् । पित्र) पयः, आतुरार्था यवागूः । तदर्थार्थेनेति किम् ? पित्रेऽर्थः ॥७२।।
५.त. पञ्चमी भयायैः ।३।११७३॥ 'पञ्चम्यन्तं भयाधेरैकार्थे समासस्तत्पुरुषः' स्यात् । वृकभयम्; वृकभीरुः ॥७३॥
तेनाऽसत्त्वे ।३.१७४॥ असत्त्ववृत्तेर्या पञ्चमी तदन्तं क्तान्तेन 'समासस्तत्पुरुषः' स्यात् । स्तोकान्मुक्तः, अल्पान्मुक्तः, दूरादागतः । असत्त्व इति किम् ? स्तोकाद् बद्धः ।।७४।।
परःशतादि ।३.१७५॥ अयम् 'पञ्चमीतत्पुरुषः साधुः स्यात् । परःशताः, परःसहस्राः ।।७५।।
प.त. षष्ट्रयत्नाच्छेषे ।३।१७६॥ "शेषे (२,२,८१)" या षष्ठी तदन्तं नाम नाम्नैकार्थ्ये समासस्तत्पुरुषः' स्यात्, न चेत् स शेषः "नाथ (२,२,१०)" इत्यादेर्यलात् । राजपुरुषः । अयलादिति किम् ? सर्पिषो नाथितम् । शेष इति किम् ? गवां कृष्णा सम्पत्रक्षीरा ॥७६॥
कृति ।३.१७७॥ "कर्मणि कृतः (२,२,८३)" "कर्तरि (२, २,८६)" इति च 'या कृन्निमित्ता