________________
१२२
श्रीसिद्धहेमचन्द्रशदानुशासनम् ॥
मासजातः; द्विगौ- एकमासजातः, व्यह्नसुप्तः । काल इति किम् ? द्रोणो धान्यस्य ॥५७॥
स्वयं-सामी क्तेन ।३।११५८॥ एते अव्यये क्तान्तेन 'समासस्तत्पुरुषः' स्याताम् । स्वयंधौतम्, सामिकृतम् । क्तेनेति किम् ? स्वयं कृत्वा ॥५॥ FR.fa.ory. द्वितीया खट्वा क्षेपे ।३।१५९॥ खट्वेति द्वितीयान्तं क्षेपे - निन्दायां क्तान्तेन ‘समासस्तत्पुरुषः' स्यात् । खट्वारूढो जाल्मः । क्षेप इति किम् ? खट्वामारूढः पिताऽध्यापयति ॥५९॥
कालः ।३।११६०॥ कालवाचि द्वितीयान्तं क्तान्तेन 'समासस्तत्पुरुषः' स्यात् । रात्र्यारूढाः, अहरतिसृताः ॥६०॥
व्याप्तौ ।३।११६१॥ गुण-क्रिया-द्रव्यैरत्यन्तसंयोगे या द्वितीया तदन्तं कालवाचि व्यापकार्थेन 'समासस्तत्पुरुषः' स्यात् । मुहूर्तसुखम्, क्षणपाठः, दिनगुडः । व्याप्ताविति किम् ? मासं पूरको याति ॥६१॥
श्रितादिभिः ।३.११६२॥ द्वितीयान्तं श्रितादिभिः 'समासस्तत्पुरुषः' स्यात् । धर्मश्रितः, शिवगतः ॥२॥
प्राप्ताऽऽपन्नौ तया-ऽच ।३।१।६३॥ एतौ प्रथमान्ती द्वितीयान्तेन 'समासस्तत्पुरुषः' स्याताम्, तद्योगे चानयोरत् स्यात् । प्राप्तजीविका, आपनजीविका ॥६३॥
ईषद् गुणवचनैः ॥३।१।६४॥