________________
श्रीसिद्धहेमचन्द्रशब्दानुशासनम्
१२१
मन नञ् ।३।११५१॥ नञ् नाम नाम्ना 'समासस्तत्पुरुषः' स्यात् । अगौः; न सूर्य पश्यन्ति= असूर्यपश्या राजदाराः ॥५१॥ ial.acy. पूर्वा-ऽपरा-ऽधरोत्तरमभिन्नांशिना ।३।११५२॥ पूर्वादयोंऽशार्या अंशवद्वाचिना ‘समासस्तत्पुरुषः' स्यात्, न चेत् सोंऽशी भिन्नः । पूर्वकायः, अपरकायः, अधरकायः, उत्तरकायः । अभिनेनेति किम् ? पूर्व छात्राणामामन्त्रयस्व । अंशिनेति किम् ? पूर्वो नाभेः कायस्य ॥५२॥
___ त. सायानादयः ।३।११५३॥ "एतेंऽशितत्पुरुषाः साधवः' स्युः । सायाह्नः, मध्यन्दिनम् ॥५३।।
संत समेंऽशेऽर्द्ध नवा ।३।११५४॥ समांशार्थमर्द्धमंशिनाऽभिन्नेन 'वा समासस्तत्पुरुषः' स्यात् । अर्द्धपिप्पली, पिप्पल्यर्द्धम् । समेंश इति किम् ? ग्रामार्द्धः ॥५४॥
संश.न जरत्यादिभिः ।३।११५५॥ एभिरंशिभिरभिन्नरझै ‘वा समासस्तत्पुरुषः' स्यात् । अर्द्धजरती, जरत्यर्द्धः; अोक्तम्, उक्तार्द्धः ॥५५॥ ___ -1. द्वि-त्रि-चतुष्पूरणा-ऽग्रादयः ।३.११५६॥ पूरणप्रत्ययान्ता द्वि-त्रि-चत्वारोऽग्रादयश्चाभिनेनांशिना 'वा समासस्तत्पुरुषः' स्यात् । द्वितीयमिक्षा, भिक्षाद्वितीयम्; तृतीयभिक्षा, भिक्षातृतीयम्; तुर्यभिक्षा, भिक्षातुर्यम्; अग्रहस्तः; हस्ताग्रम्: तलपादः, पादतलम् ।।५६।।
वन कालो द्विगौ च मेयैः ।३।११५७॥ कालवाच्येकवचनान्तं द्विगौ च विषये मेयवाचिना- 'समासस्तत्पुरुषः' स्यात् ।