________________
१२०
श्रीसिद्धहेमचन्द्रशब्दानुशासनम् ॥ अतिक्रमे पूजायां चार्थे अतीत्यव्ययं नाम्ना सह 'नित्यं समासस्तत्पुरुषः' स्यात् । अतिस्तुत्य; अतिराजा ॥४५॥
and. आङल्पे ।३।१।४६॥ आङित्यव्ययमल्पार्थं नाम्ना सह 'समासस्तत्पुरुषः' स्यात् । आकडारः ॥४६॥
प्रात्यव-परि-निरादयो गत-क्रान्त-क्रुष्ट-ग्लान- क्रान्तायाः
Yuan . प्रथमायन्तैः ।३।११४७॥ प्रादयो गताद्याः प्रथमान्तैः, अत्यादयः क्रान्ताधर्था द्वितीयान्तैः, अवादयः क्रुष्टाद्यर्थास्तृतीयान्तैः, पर्यादयो ग्लानाद्यर्थाश्चतुर्थ्यन्तैः, निरादयः क्रान्ताद्यर्थाः पञ्चम्यन्तैर्नित्यम् ‘समासस्तत्पुरुषः' स्यात् । प्राचार्यः, समर्थः; अतिखट्वः, उद्वेलः; अवकोकिलः, परिवीरुत्; पर्यध्ययनः; उत्सङ्ग्रामः; निष्कौशाम्बिः, अपशाखः; बाहुलकात् षष्ठ्याऽपि - अन्तर्यिः । गताद्यर्था इति किम् ? वृक्षं प्रति विद्युत् । अन्य इत्येव - प्राचार्यको देशः ॥४७॥
अव्ययं प्रवृद्धादिभिः ।३।११४८॥ अव्ययं प्रवृद्धादिभिस्सह 'नित्यं समासस्तत्पुरुषः' स्यात् । पुनःप्रवृद्धम्, अन्तर्भूतः ॥४८॥
७५५६ dya. उस्युक्तं कृता ।३।११४९॥ कृप्रत्ययविधायके सूत्रे इस्यन्तनाम्नोक्तं कृदन्तेन नाम्ना 'नित्यं समासस्तत्पुरुषः' स्यात् । कुम्भकारः । उस्युक्तमिति किम् ? अलं कृत्वा । कृतेति किम् ? धर्मो वो रक्षतु ॥४९॥
तृतीयोक्तं वा ।३।११५०॥ "दंशेस्तृतीयया (५.४.७३)" इत्यतो यत्तृतीयोक्तं नाम तत् कृदन्तेन 'वा समासस्तत्पुरुषः स्यात्' । मूलकोपदंशम्, मूलकेनोपदंशं भुङ्क्ते ॥५०॥