________________
श्रीसिद्धहेमचन्द्रशब्दानुशासनम्
११९
त्युपभोगाघभावः- अतिकम्बलम् । पश्चात् - अनुरथम् । क्रमः- अनुज्येष्ठम् । ख्यातिः- इतिभद्रबाहु । युगपत् - सचक्रं धेहि । सदृक्- सव्रतम् । सम्पत्- सब्रह्म साधूनाम् । साकल्यम्- सतृणमभ्यवहरति । अन्तःसपिण्डैषणमधीते ॥३९॥
योग्यता-वीप्सा-ऽर्थानतिवृत्ति-सादृश्ये ।३।१॥४०॥ एष्वर्थेष्वऽव्ययं नाम्ना सह पूर्वपदार्थे 'समासोऽव्ययीभावः' स्यात् । अनुरूपम्, प्रत्यर्थम्, यथाशक्ति, सशीलमनयोः ॥४०॥
यथाऽथा ।३।११४१॥ थाप्रत्ययवर्ज ययेत्यव्ययं नाम्ना सह पूर्वपदार्थे 'समासोऽव्ययीभावः' स्यात् । यथारूपं चेष्टते, यथावृद्धमर्चय, यथासूत्रम् । अथेति किम् ? यथा चैत्रस्तथा मैत्रः ॥४१॥
acy. गति-क्वन्यस्तत्पुरुषः ।३।१।४२॥ गतयः कुश्च नाम्ना सह 'नित्यं समासस्तत्पुरुषः' स्यात्, अन्यः- बहुव्रीह्यादिलक्षणहीनः । ऊरीकृत्य, खाट्कृत्य, प्रकृत्य, कारिकाकृत्य; कुब्राह्मणः, कोष्णम् । अन्य इति किम् ? कुपुरुषकः ॥४२॥
तत. दुनिन्दा-कृच्छ्रे ।३।१॥४३॥ दुरव्ययं निन्दा-कृच्छ्रवृत्ति नाम्ना सह 'नित्यं समासस्तत्पुरुषः' स्यात् । दुष्पुरुषः, दुष्कृतम् । अन्य इति किम् ? दुष्पुरुषकः ॥४३॥
old सुः पूजायाम् ।३।११४४॥ स्वित्यव्ययं पूजार्थं नाम्नाः सह नित्यं समासस्तत्पुरुषः' स्यात् । सुराजा । अन्य इति किम् ? सुमद्रम् ॥४४॥
A. अतिरतिक्रमे च ३३१४५॥