________________
११८
श्रीसिद्धहेमचन्द्रशब्दानुशासनम् ॥
समीपे ।३।१।३५॥ समीपार्थेऽनुः समीपिवाचिनाम्ना पूर्वपदार्थे 'समासोऽव्ययीभावः' स्यात् । अनुवनमशनिर्गता ॥३५॥
तिष्ठन्वित्यादयः ।३।१।३६॥ एते समासा. 'अव्ययीभावाः' स्युः, यथायोगमन्यस्य पूर्वस्य वा पदस्यार्थे । तिष्ठद्गुः कालः, अधोनाभं हतः ॥३६॥
नित्यं प्रतिनाऽल्पे ।३।११३७॥ अल्पार्थेन प्रतिना नाम 'नित्यं समासोऽव्ययीभावः' स्यात् । शाकप्रति । अल्प इति किम् ? वृक्षं प्रति विद्युत् ॥३७॥
सङ्ख्याऽक्ष-शलाकं परिणा द्यूतेऽन्यथावृत्तौ ।३।११३८॥ संख्यावाच्यक्ष-शलाके च द्यूतविषयायामन्यथावृत्तौ वर्तमानेन परिणा सह 'नित्यं समासोऽव्ययीभावः' स्यात् । एकपरि, अक्षपरि, शलाकापरि, एकेनाऽक्षेण शलाकया वा न तथावृत्तं यथा पूर्व जय इत्यर्थः । सङ्ख्यादीति किम् ? पाशकेन न तथा वृत्तम् । द्यूत इति किम् ? रथस्याक्षेण न तथा वृत्तम् ॥३८॥
विभक्ति-समीप-समृद्धि-व्वृद्ध्यर्थाभावा-ऽत्यया-ऽसंप्रतिपश्चात- क्रम-ख्याति-युगपत- सदृक्-सम्पत्-साकल्यान्ते
ऽव्ययम् ।३।११३९॥ एष्वर्थेषु वर्तमानमव्ययं नाम्ना सह पूर्वपदार्थे वाच्ये 'नित्यं समासोऽव्ययीभावः' स्यात् । विभक्तिः- विभक्त्यर्थः कारकम्, अधिस्त्रि । समीपम्उपकुम्भम् । समृद्धि:- सुमद्रम् । विगता ऋद्धिय॒द्धिः- दुर्यवनम् । अर्थाभावः- निर्मक्षिकम् । अत्ययोऽतीतत्वम् - अतिवर्षम् । असम्प्रतीति सम्प्र