________________
श्रीसिद्धहेमचन्द्रशब्दानुशासनम्
११७
संख्यावाचि 'समासोऽव्ययीभावः स्यात् पूर्वपदस्यार्थे वाच्ये । एकमुनि व्याकरणस्य, सप्तकाशि राज्यस्य । पूर्वार्थ इति किम् ? द्विमुनिकं व्याकरणम् ॥२९॥
पारे - मध्ये -ऽग्रे ऽन्तः षष्ठ्या वा | ३|१|३०|
एतानि षष्ठ्यन्तेन पूर्वपदार्थे 'समासोऽव्ययीभावो वा स्युः । पारेगङ्गम्, मध्येगङ्गम्, अग्रेवणम्, अन्तर्गिरम्; पक्षे गङ्गापारम्, गङ्गामध्यम्, वनाग्रम्, गिर्यन्तः ||३०||
यावदियत्त्वे |३|१|३१॥
इयत्त्वे ऽवधारणे गम्ये यावदिति नाम नाम्ना पूर्वपदार्थे वाच्ये 'समासोऽव्ययीभावः' स्यात् । यावदमत्रं भोजय । इयत्त्व इति किम् ? यावद् दत्तं तावद् भुक्तम् ॥३१॥
पर्यपा - ऽऽबहिरच पञ्चम्या | ३ |१|३२||
एतानि पञ्चम्यन्तेन पूर्वपदार्थे वाच्ये 'समासोऽव्ययीभावः' स्युः । परित्रिगर्त्तम्, अपत्रिगर्तम्, आग्रामम्, बहिर्ग्रामम्, प्राग्ग्रामम् । पञ्चम्येति किम् ? परि वृक्षं विद्युत् ॥ ३२॥
लक्षणेनाऽभि प्रत्याभिमुख्ये | ३|१|३३॥
लक्षणम् - चिह्नम्, तद्वाचिनाऽऽभिमुख्यार्थावभि-प्रती पूर्वपदार्थेऽर्थे 'समासोऽव्ययीभावः' स्याताम् । अभ्यग्नि प्रत्यग्नि शलभाः पतन्ति । लक्षणेनेति किम् ? स्रुघ्नं प्रति गतः । पूर्वपदार्थ इत्येव - अभ्यङ्का गावः ॥ ३३॥ दैर्घ्येऽनुः | ३|१|३४||
दैर्घ्यं - आयामविषये यल्लक्षणं तद्वाचिना पूर्वपदार्थेऽनुः 'समासोऽव्ययीभावः ' स्यात् । अनुगनं वाराणसी । दैर्ध्य इति किम् ? वृक्षमनु विद्युत् ||३४||