________________
११६
श्रीसिद्धहेमचन्द्रशदानुशासनम् ॥
दिशो रून्याऽन्तराले ।३।१।२५॥ (द.sी रूया दिग्वाचि नाम रूढ्यैव दिग्वाचिना सहान्तरालेऽन्यपदार्थे वाच्ये 'समासो बहुव्रीहिश्च' स्यात् । दक्षिणपूर्वा दिक् । रूदयेति किम् ? ऐन्द्रयाश्च कौबेर्याश्च दिशोर्यदन्तरालमिति (वाक्यमेव) ॥२५॥ तत्राऽऽदाय मिथस्तेन प्रहत्येति सरूपेण युद्धेऽव्ययीभावः
३१॥२६॥ तत्रेति सप्तम्यन्तं मिथ आदायेति क्रियाव्यतिहारे, तेनेति तृतीयान्तं मिथः प्रहत्येति क्रियाव्यतिहारे, समानरूपेण नाम्ना युद्धविषयेऽन्यपदार्थे वाच्ये 'समासोऽव्ययीभावश्च' स्यात् । केशाकेशि, दण्डादण्डि । तत्रेति तेनेति च किम् ? केशांश्च केशांश्च गृहीत्वा, मुखं च मुखं च प्रहृत्य कृतं युद्धम् । आदायेति प्रहत्येति च किम् ? केशेषु च केशेषु च स्थित्वा, दण्डैश्च दण्डैश्चागत्य कृतं युद्धं गृहकोकिलाभ्याम् । सरूपेणेति किम् ? हस्ते च पादे च गृहीत्वा कृतं युद्धम् । युद्ध इति किम् ? हस्ते च हस्ते चाऽऽदाय सख्यं कृतम् ॥२६॥
नदीभिर्नाम्नि ।३।१२७॥ नाम नदीवाचिना संज्ञायामन्यपदार्थे 'समासोऽव्ययीभावश्च' स्यात् । उन्मत्तगङ्गं देशः, तूष्णींगङ्गम् । नाम्नीति किम् ? शीघ्रगणो देशः ॥२७॥
सवचा समाहारे ।३।१॥२८॥ संख्यावाचि नदीवाचिभिः सह 'समाहारे गम्ये समासोऽव्ययीभावः' स्यात् । द्वियमुनम्, पञ्चनदम् । समाहार इति किम् ? एकनदी । द्विगुबाधनाथ वचनम् ॥२८॥
वंश्येन पूर्वार्थ ।३।१।२९॥ विद्यया जन्मना वा एकसन्तानो वंशः, तत्र भवो वंश्यः, तद्वाचिना नाम्ना