________________
श्रीसिद्धहेमचन्द्रशब्दानुशासनम्
११५
सुजऽर्थो वारः, वाऽर्थो विकल्पः संशयो वा तद्वृत्ति सङ्ख्यावाचि नाम सङ्ख्येयाऽर्थेन सङ्ख्यानाम्ना सहैकार्थ्ये 'समासो बहुव्रीहिश्च' स्यात् । द्विदशाः; द्वित्राः । समयेति किम् ? गावो वा दश वा । सङ्ख्ययेति किम् ? दश वा गावो वा । सङ्ख्येय इति किम् ? द्विर्विंशतिर्गवाम् ||१९||
आसन्ना - ऽदूरा-ऽधिका-ऽध्यर्द्धा ऽर्द्धादिपूरणं द्वितीयाद्यन्यार्थे ।३।१।२० ॥ सं.ज. प्रि.
आसन्नादि अर्द्धपूर्वपदं च पूरणप्रत्ययान्तं नाम संख्यानाम्नैकार्थ्ये 'समासः' स्यात्, द्वितीयाद्यन्तस्यान्यपदस्यार्थे सङ्घयेये वाच्ये, स च 'बहुव्रीहिः' । आसत्रदशाः, अदूरदशाः, अधिकदशाः अध्यर्द्धविंशाः, अर्द्धपञ्चमविंशाः ||२०||
,
अव्ययम् | ३|१|२१|| सं.ज.पी. 'अव्ययं नाम सङ्ख्यानाम्नैकार्थ्ये समस्यते' द्वितीयाद्यन्यार्थे सङ्ख्येये वाच्ये स च 'बहुव्रीहि:' । उपदशाः ||२१||
एकार्थ चाऽनेकं च |३|१|२२॥ समानाधिकरण
एकमनेकं च 'एकार्थम् समानाधिकरणम्' अव्ययं च नाम्ना द्वितीयाद्यन्तान्यपदार्थे 'समस्यते, स च बहुव्रीहिः' । आरूढवानरो वृक्षः, सुसूक्ष्मजटकेशः, उच्चैर्मुखः ||२२||
व्यधिकरण, उपमान, नज्
उष्ट्रमुखादयः ।३।१।२३॥ आदि
एते 'बहुव्रीहिसमासा निपात्यन्ते । उष्ट्रमुखमिव मुखमस्य = उष्ट्रमुखः, वृषस्कन्धः ||२३||
सहस्तेन | ३|१|२४|
तेनेति तृतीयान्तेन सहोऽन्यपदार्थे 'समस्यते स च बहुव्रीहि:' । सपुत्र आगतः, सकर्मकः ॥२४॥ सार्थ जहुवीडि