________________
११२ । ११२
श्रीसिद्धहेमचन्द्रशब्दानुशासनम् ॥
अर्हम् ॥ अथ तृतीयोऽध्यायः (प्रथमः पादः)॥ धातोः पूजार्थस्वति- गतार्याऽधिपर्यतिक्रमार्थाऽतिवर्जः
प्रादिरुपसर्गः प्राक् च ।३।११॥ धातोः सम्बन्धी तदर्थद्योती 'प्रादिरुपसर्गः स्यात्, स च धातोः प्राक् - न परो न व्यवहितः, पूजार्थी स्वती, गतार्यावधिपरी, अतिक्रमार्थमतिञ्च वर्जयित्वा' । प्रणयति, परिणयति । धातोरिति किम् ? वृक्षं वृक्षमभि सेकः । पूजार्थस्वत्यादिवर्जनं किम् ? सुसिक्तम्, अतिसिक्तम् भवता; अध्यागच्छति, आगच्छत्यधि, पर्यागच्छति, आगच्छति परि; अतिसिक्त्वा । धातोरिति प्राक् चेति च गतिसंज्ञां यावत् ॥१॥
ऊर्यायनुकरण-च्चि-डाचच गतिः ।३।१२॥ एते उपसर्गाश्च धातोः सम्बन्धिनो 'गतयः स्युस्ते च प्राग् धातोः' । ऊर्यादि:ऊरीकृत्य, उररीकृत्य; अनुकरणम् – खाटकृत्य; च्यन्तः- शुक्लीकृत्य; डाजन्तःपटपटाकृत्य; उपसर्गः- प्रकृत्य ॥२॥
कारिका स्थित्यादौ ।३।१३॥ स्थित्यादावर्थे कारिका 'गतिः' स्यात् । स्थितिः- मर्यादा वृत्तिर्वा । कारिकाकृत्य ॥३॥
भूषा-5ऽदर-क्षेपेऽलंसद-ऽसत ।३।११४॥ एष्वर्येष्वेते यथासंख्यम् ‘गतयः' स्युः । अलङ्कृत्य, सत्कृत्य, असत्कृत्य । भूषादिष्विति किम् ? अलं कृत्वा- मा कारीत्यर्थः ॥४॥
अग्रहा-ऽनुपदेशेऽन्तरदः ।३।११५॥