________________
श्रीसिद्धहेमचन्द्रशब्दानुशासनम्
११३ अनयोरर्थयोरेतौ यथासंख्यम् ‘गती' स्याताम् । अन्तर्हत्य, अदःकृत्यै - तत्कर्तेति ध्यायति ॥५॥
कणे-मनस् तृप्तौ ॥३॥१६॥ एतावव्ययौ तृप्ती गम्यमानायाम् ‘गती' स्याताम् । कणेहत्य मनोहत्य पयः पिबति । तृप्ताविति किम् ? तण्डुलावयवे कणे हत्वा ॥६॥
पुरोऽस्तमव्ययम् ।३।१७॥ एतावव्ययौ 'गती' स्याताम् । पुरस्कृत्य, अस्तङ्गत्य । अव्ययमिति किम् ? पुरः कृत्वा- नगरीरित्यर्थः ॥७॥
__ गत्यर्थ-वदोऽच्छः ।३।१८॥ अच्छेत्यव्ययं गत्यर्थानां वदश्च धातोः सम्बन्धि ‘गतिः' स्यात् । अच्छगत्य, अच्छोद्य ॥॥
तिरोऽन्तौ ॥१९॥ तिरोऽन्तझै ‘गतिः' स्यात् । तिरोभूय ॥९॥
कृगो नवा ।३।१।१०॥ तिरोऽन्तौं कृगः सम्बन्धि 'गतिर्वा' स्यात् । तिरस्कृत्य, तिरःकृत्य, पक्षे तिरः कृत्वा ॥१०॥
मध्ये-पदे-निवचने-मनस्युरस्यनत्याधाने ।३।१।११॥ अनत्याधानम् - अनुपश्लेषोऽनाश्चर्य च, तद्वृत्तय एतेऽव्ययाः कृग्योगे 'गतयो वा' स्युः । मध्येकृत्य, मध्ये कृत्वा; पदेकृत्य, पदे कृत्वा; निवचनेकृत्य, निवचने कृत्वा; मनसिकृत्य, मनसि कृत्वा; उरसिकृत्य, उरसि कृत्वा ॥११॥
उपाजेऽन्वाजे ३११११२॥ एतावव्ययौ दुर्बलस्य भग्नस्य वा बलाधानार्थी कृग्योगे 'गती वा' स्याताम् ।