________________
श्रीसिद्धहेमचन्द्रशब्दानुशासनम्
१११
अस्याऽयत्-तत्-क्षिपकादीनाम् ।२।४।१११॥ यदादिवर्जस्याऽतोऽनित्क्याप्परे 'इः' स्यात् । पाचिका, मद्रिका । अनित्कीत्येवजीवका । आप्पर इत्येव- बहुपरिव्राजका । यदादिवर्जनं किम् ? यका, सका, क्षिपका, ध्रुवका ॥१११॥
नरिका-मामिका ।२।४।११२॥ नरका-मामकयोरित्वं निपात्यते । नरिका, मामिका ||११२॥ तारका-वर्णका-ऽष्टका ज्योतिस्- तान्तव-पितृदेवत्ये
२१४११३॥ एतेष्वर्थेषु यथासंख्यम् ‘एते इवर्जा निपात्यन्ते' । तारका ज्योतिः, वर्णका प्रावरणविशेषः, अष्टका पितृदेवत्यं कर्म ॥११३॥ इत्याचार्यश्रीहेमचन्द्रविरचितायां सिद्धहेमचन्द्राभिधानस्वोपज्ञशब्दानुशासन
लघुवृत्तौ द्वितीयस्याध्यायस्य चतुर्थः पादः समाप्तः ॥२।।४।। श्रीमूलराजक्षितिपस्य बाहुर्बिभर्ति पूर्वाचलशृङ्गशोभाम् । संकोचयन् वैरिमुखाम्बुजानि, यस्मिन्नयं स्फूर्जति चन्द्रहासः ॥८॥
॥ द्वितीयोऽध्यायः समाप्तः ॥