________________
११०
श्रीसिदहेमचन्द्रशब्दानुशासनम्
न कचि ।२।४।१०५॥ झ्यादीदूतः कचि परे 'इस्वो न' स्यात् । बहुकुमारीकः, बहुकीलालपाकः, बहुलक्ष्मीकः, बहुब्रह्मबन्धूकः ॥१०५॥
नवाऽऽपः ।२।४।१०६॥ ॥१०६॥ आपः कचि परे 'इस्वो वा' स्यात् । प्रियखट्वकः, प्रियखट्वाकः
इचाऽपुंसोऽनित्क्याप्परे ।२।४।१०७॥ आबेव परो यस्मान्न विभक्तिस्तस्मिन्ननितः प्रत्ययस्यावयवे के परेऽपुल्लिङ्गा
द्विहितस्याऽऽपस्स्थाने 'इ-इस्वी वा' स्याताम् । खट्विका, खट्वका, खट्वाका । अपुंस इति किम् ? सर्विका । अनिदिति किम् ? दुर्गका । आप्पर इति किम् ? प्रियखट्वाको ना, अतिप्रियखट्वाका स्त्री । आप इत्येव- मातृका ||१०७।।
स्व-ज्ञा-5ज-भस्त्राऽधातुत्ययकात् ।२।४।१०८॥ स्व-ज्ञा-ऽज-मस्त्रेभ्यो धातु-त्यवर्जस्य यौ य-को ताभ्यां च परस्या-ऽऽपः स्थानेऽनित्क्याप्परे परत 'इकारो वा' स्यात् । स्विका, स्वका; शिका, ज्ञका; अजिका, अजका; अभस्त्रिका, अभत्रका; इभ्यिका, इभ्यका; चटकिका, चटकका । धातुत्यवर्जनं किम् ? सुनयिका, सुपाकिका, इहत्यिका । आप इत्येव- काम्पील्यिका ॥१०८॥
ब्येष-सूत-पुत्र-वृन्दारकस्य ।२।४।१०९॥ एषामन्तस्यानित्क्याप्परे 'इर्वा' स्यात् । द्विके, द्वके; एषिका; एषका; सूतिका, सूतका; पुत्रिका; पुत्रका; वृन्दारिका, वृन्दारका ॥१०९॥
वौ वर्तिका २१४११०॥ शकुनावर्थे 'वर्तिका' इति 'इत्वं वा' स्यात् । वर्तिका, वर्तका । वाविति किम् ? वर्तिका भागुरिः ॥११०॥