________________
श्रीसिद्धहेमचन्द्रशब्दानुशासनम्
१०९ वेदूतोऽनव्यय-वृदीच-डीयुवः पदे ।२।४।९८॥ ईदूतोरुत्तरपदे परे 'इस्वो वा' स्यात् न चेतावव्ययौ म्वृती ईचौ ड्यौ इयुस्थानी च स्याताम् । लक्ष्मिपुत्रः, लक्ष्मीपुत्रः; खलपुपुत्रः खलपूपुत्रः । अव्ययादिवर्जनं किम् ? काण्डीभूतम्, इन्द्रहूपुत्रः, कारीषगन्धीपुत्रः, गार्गीपुत्रः, श्रीकुलम्, भ्रूकुलम् ॥९८॥
ङ्बापो बहुलं नाम्नि ।२।४।९९॥ ड्यन्तस्याऽऽवन्तस्य चोत्तरपदे संज्ञायां 'हस्वः' स्यात्, बहुलम् । भरणि - गुप्तः; रेवतिमित्रः, रेवतीमित्रः; शिलवहम्; गङ्गमहः, गङ्गामहः ॥१९॥
त्वे ।२।४।१००॥ झ्याबन्तस्य त्वे परे बहुलम् ‘हस्वः' स्यात् । रोहिणित्वम्, रोहिणीत्वम् अजत्वम्, अजात्वम् ॥१०॥
ध्रुवोऽच कुंस-कुट्योः ।२।४।१०१॥ अनयोः परयोर्भुवो 'इस्वोऽध' स्यात् । भुकुंसः, भ्रकुंसः; भ्रुकुटिः, भ्रकुटिः ॥१०१॥
मालेषीकेष्टकस्याऽन्तेऽपि भारि-तूल-चिते ।२।४११०२॥ एषां केवलानामन्तस्थानां च भार्यादिषु परेषु यथासंख्यम् 'ह्रस्वः' स्यात् । मालभारी, उत्पलमालभारी; इषीकतूलम्, इष्टकचितम् ॥१०२॥
गोण्या मेये ।२।४।१०३॥ [॥१०३॥ गोण्या मानवृत्तेरुपचारान्मेयवृत्ते- ईस्वः' स्यात् । गोण्या मितो गोणिः
यादीदूतः के ।२।४११०४॥ झ्यादीदूदन्तानां च के प्रत्यये 'इस्वः' स्यात् । पविका, सोमपकः, लक्ष्मिका, वधुका ॥१०॥