________________
१०८
श्रीसिद्धहेमचन्द्रशब्दानुशासनम् वास्येन । अनातीति किम् ? गाायणः ।।९२॥
बिल्वकीयादेरीयस्य ।२।४।९३॥ नडादिस्था बिल्वादयः, तेषां कीयप्रत्ययान्तानाम् 'ईयस्य तद्धितयस्वरे लुक्' स्यात् । बैल्वकाः, वैणुकाः । बिल्वकीयादेरिति किम् ? नाडकीयः ॥९३।।
न राजन्य-मनुष्ययोरके ।२।४।९४॥ अनयो-'योऽके परे लुग् न' स्यात् । राजन्यानां समूहो राजन्यकम्, एवं मानुष्यकम् ॥१४॥
यादेर्गौणस्याक्विपस्तद्धितलुक्यगोणी-सूच्योः ।२।४।९५॥ 'ड्यादेः प्रत्ययस्य गौणस्याक्विबन्तस्य तद्धितलुकि लुक् स्यात्, न तु गोणीसूच्योः' । सप्तकुमारः, पञ्चेन्द्रः, पञ्चयुवा, द्विपङ्गुः । गौणस्येति किम् ? अवन्ती । अक्विप इति किम् ? पञ्चकुमारी । अगोणी-सूच्योरिति किम् ? पञ्चगोणिः, दशसूचिः ॥९५॥
गोधान्ते हस्वोऽनंशिसमासेयोबहुव्रीहौ ।२।४।९६॥ गौणस्याऽक्विपो गोधिन्तस्य चान्ते वर्तमानस्य 'इस्वः' स्यात्, न चेदसावंशिसमासान्त ईयस्वन्तबहुव्रीह्यन्तो वा । चित्रगुः, निष्कौशाम्बिः, अतिखट्वः, अतिब्रह्मबन्धुः । गौणस्येत्येव- सुगौः, राजकुमारी । अक्विप इत्येव- प्रियगौः, प्रियकुमारी चैत्रः । गोश्चेति किम् ? अतितन्त्रीः । अन्त इति किम् ? गोकुलम्, कुमारीप्रियः, कन्यापुरम् । अंशिसमासादिवर्जनं किम् ? अर्द्धपिप्पली, बहुश्रेयसी ना ।।९६।।
कीबे ।२।४।९७॥ नपुंसकवृत्तेः स्वरान्तस्य नाम्नो 'इस्वः' स्यात् । कीलालपम्, अतिनु कुलम् ।।९७॥