________________
-
श्रीसिद्धहेमचन्द्रशब्दानुशासनम्
१०७ कारीषगन्धीमातः, कारीषगन्ध्यामातः; कारीषगन्धीमाता, कारीषगन्ध्यामाता । कारीषगन्धीमातृकः, कारीषगन्ध्यामातृकः ॥८५॥
अस्य यां लुक् ।२।४।८६॥ क्यां परे -ऽस्य लुक् स्यात् । मद्रचरी ।८।।
मत्स्यस्य यः ।२।४।८७॥ 'मत्स्यस्य यो झ्यां लुक्' स्यात् । मत्सी ॥८७।।
व्यन्जनात् तद्धितस्य ।२।४।८८॥ व्यज्जनात् परस्य तद्धितस्य 'यो ज्यां लुक्' स्यात् । मनुषी । व्यञ्जनादिति किम् ? कारिकेयी । तद्धितस्येति किम् ? वैश्यी ॥८८॥
सूर्या-ऽगस्त्ययोरीये च ।२।४।८९॥ अनयो-'यो ड्यामीये च प्रत्यये लुक् स्यात् । सूरी, आगस्ती, सौरीयः, आगस्तीयः ॥८९॥
तिष्य-पुष्ययो र्भाऽणि २१४९०॥ भम्- नक्षत्रम्, तस्याऽणि परेऽनयो-'यो लुक् स्यात् । तैषी रात्रिः, पौषमहः । भाणीति किम् ? तैष्यश्वरुः ॥१०॥
__आपत्यस्य क्य-च्योः ।।४।९१॥ व्यञ्जनात् परस्याऽऽपत्यस्य 'यः क्ये च्चौ च परे लुक् स्यात् । गार्गीयति, गार्गायते, गार्गीभूतः । आपत्यस्येति किम् ? साकाश्यीयति । व्यञ्जनादित्येव -कारिकेयीयति ॥११॥
तद्धितयस्वरेऽनाऽऽति ।२।४९२॥ व्यञ्जनात् परस्याऽऽपत्यस्य 'यो यादावादादिवर्जस्वरादौ च तद्धिते लुक स्यात् । गार्ग्यः, गार्गकम् । आपत्यस्येत्येव- काम्पील्यकः । तद्धितेति किम् ?