________________
१०६
श्रीसिद्भहेमचन्द्रशब्दानुशासनम्
कुलमाऽऽख्यायते यकाभिस्तासामनार्षवृद्धाणिजन्तानामन्तस्य स्त्रियां 'ष्यः' स्यात् । पौणिक्या, गौप्त्या । अनार्ष इत्येव- गौतमी ॥७९॥
क्रौड्यादीनाम् ।२।४।८०॥ क्रौडि इत्यादीनामणिजन्तानामन्तस्य स्त्रियां 'व्यः' स्यात् । क्रौड्या, लाड्या ||८०॥
भोज-सूतयोः क्षत्रिया-युवत्योः ।२४८१॥ अनयोरन्तस्य यथासंख्यं क्षत्रिया युवत्योः स्त्रियां 'ष्यः' स्यात् । भोज्या क्षत्रिया, सूत्या युवतिः । अन्या तु भोजा, सूता ॥८॥
दैवयज्ञि-शौचिवृक्षि-सात्यमुनि-काण्ठेविद्वेर्वा ।२।४१८२॥ एषाम् इसन्तानां स्त्रियामन्तस्य 'प्यो वा' स्यात् । दैवयझ्या, दैवयज्ञी; शौचिवृक्ष्या, शौचिवृक्षी; सात्यमुग्र्या, सात्यमुग्री; काण्ठेविड्या, काण्ठेविद्धी ॥२॥
ष्या पुत्र-पत्योः केवलयोरीच तत्पुरुषे ।२।४।८३॥ मुख्य आबन्तः ष्यः पुत्र-पत्योः केवलयोः परयोस्तत्पुरुष समासे 'ईच्' स्यात् । कारीषगन्धीपुत्रः, कारीषगन्धीपतिः । ष्येति किम् ? इभ्यापुत्रः । केवलयोरिति किम् ? कारीषगन्ध्यापुत्रकुलम् ॥८३॥
बन्धौ बहुव्रीहौ ।२।४1८४॥ मुख्य आवन्तः ष्यो बन्धी केवले परे 'बहुव्रीहावीच् स्यात् । कारीषगन्धीबन्धुः । केवल इत्येव-कारीषगन्ध्याबन्धुकुलम् । मुख्य इत्येव अतिकारीषगन्ध्याबन्धुः ।।८४॥
___ मात-मातृ-मातृके वा ।२।४१८५॥ मुख्य आबन्तः ष्यो मातादिषु केवलेषु परेषु 'बहुव्रीहावीज वा' स्यात् ।