________________
श्रीसिद्धहेमचन्द्रशदानुशासनम्
१०५
रज्ज्वादिभ्यश्च । कुरूः, ब्रह्मबन्धूः; अलाबूः, कर्कन्धः । उत इति किम् ? वधूः । अप्राणिनश्चेति किम् ? आखूः । जातेरित्येव- पटुः स्त्री । युरज्ज्वादिवर्जनं किम् ? अध्वर्युः स्त्री, रज्जुः, हनुः ॥७३॥
बावन्त-कद्रु-कमण्डलोनाम्नि ।२।४७४॥ बाह्वन्तात् कद्रु-कमण्डलुभ्यां च संज्ञायां स्त्रियाम् 'ऊ' स्यात् । मद्रबाहू:, कद्रूः, कमण्डलूः । नाम्नीति किम् ? वृत्तबाहुः ॥७४|| उपमान-सहित-संहित-सह-सफ-वाम-लक्ष्मणायूरोः ।२।४७५॥ एतत्पूर्वपदादूरोः स्त्रियाम् 'ऊङ् स्यात् । करभोरूः, सहितोरूः, संहितोरुः, सहोरूः, सफोरः, वामोरूः, लक्ष्मणोरुः । उपमानाधादेरिति किम् ? पीनोरुः ।।७५॥
नारी-सखी-पङ्-श्वश्रू ।२।४७६॥ एते 'ड्यन्ता ऊङन्ताश्च निपात्यन्ते' ॥७६।।
यूनस्तिः ।२।४७७॥ यूनः स्त्रियां 'तिः' स्यात् । युवतिः । मुख्यादित्येव- नियूँनी ।।७७|| अनार्षे वृद्धेऽणिजो बहुस्वर-गुरूपान्त्यस्या-ऽन्तस्य ष्यः
२१४७८॥ अनार्षे वृद्धे विहितौ यावणिजौ तदन्तस्य सतो बहुस्वरस्य गुरूपान्त्यस्य नाम्नो-ऽन्तस्य 'प्यः' स्यात् । कारीषगन्ध्या, बालाक्या । अनार्ष इति किम् ? वासिष्ठी । वृद्ध इति किम् ? आहिच्छत्री । अणिञ इति किम् ? आतभागी । बहुस्वरेति किम् ? दाक्षी । गुरूपान्त्यस्येति किम् ? औपगवी । अणिजन्तस्य सतो बहुस्वरादिविशेषणं किम् ? दौवार्या, औडुलोम्या ॥७८।।
कुलाख्यानाम् ।२।४७९॥